________________
[पा० ४. सू० ५३-५४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३८५
न्या० स०--पाणि । पाणिगृहीती इति प्रकारो येषां ते तथा, जसः सूत्रत्वाल्लुप् ।। २. ४. ५२ ॥
पतिवन्यन्तर्वन्यौ भार्या-गर्मिण्योः ॥ २. ४. ५३ ॥
भार्या-अविधवा स्त्री, तस्यामभिधेयायां पतिमच्छब्दाद् डीरस्य च पतिवत्नादेशः, तथा गभिण्यां स्त्रियामभिधेयायामन्तर्वच्छब्दाद् डीरस्य 5 चान्तर्वत्नादेशो निपात्यते; निपातनादेव च अधिकरणप्रधानादप्यन्तःशब्दान्मत्वर्थीयो मतुर्भवति । भार्येति किम् ? पतिमती पृथ्वी । गर्भिणीति किम् ? अन्तरस्यां शालायामस्ति ।। ५३ ।।
न्या० स०--पतिवत्न्यन्त । अधिकरणप्रधानादपीति-"तदस्यास्त्यस्मिन् ०" [ ७. २. १. ] इत्यत्र तदिति प्रथमान्ताद् विहितत्वेनाऽप्राप्त इत्यर्थः ।। २. ४. ५३ ।। 10
जातेरयान्त-नित्यस्त्री-शूदात् ॥ २. ४. ५४ ॥
जातिवाचिनोऽकारान्तानाम्नः स्त्रियां ङीर्भवति, न चेत् तद् यान्तं नित्यस्त्रीजातिवाचि शूद्रशब्दो वा भवति । तत्र जातिः काचित् संस्थानव्यङ्गया, यथा-गोत्वादिः, सकृदुपदेशव्यङ्गयत्वे सत्यत्रिलिङ्गाऽन्या, यथाब्राह्मणत्वादिः, अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्गयत्वे सती-15 त्युक्तम्, गोत्र-चरणलक्षणा च तृतीया, यदाहुः
__"प्राकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् ।
सकृदाख्यातनिर्लाह्या, गोत्रं च चरणैः सह" ।। १ ।। इति । कुक्कुटी, सूकरी, तटी, पात्री; तथा ब्राह्मणी, वृषली; तथा नाडायनी, चारायणी; कठी, बह वृची। जातेरिति किम् ? मुण्डा, शुक्ला, कृता,20 देवदत्ता। अयान्तेति किम् ? इभ्या, क्षत्रिया, वैश्या, अर्या; गवयी, हयी, मुकयी, मनुषी, मत्सी, ऋश्यी इति गौरादिपाठात् । अन्तग्रहणं साक्षात्प्रतिपत्त्यर्थम्, तेन-वतण्डस्यापत्यं पौत्रादि स्त्रीति यञ्, तस्य लोपे स्थानिवद्भावेऽपि वतण्डीत्यत्र यान्तलक्षणः प्रतिषेधो न भवति । नित्यस्त्रीजातिवर्जनं किम् ? मक्षिका, यूका, खट्वा । कथं तर्हि द्रोणी ?, कुटी ?, अत्र हि शब्दयोनित्य-25