________________
३८४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० ५०-५२.]
निर्देशात्, तुल्ययोगे हि पूर्वेण शब्देन सह पतिशब्दस्य नकारो भवतीति सूत्रार्थे सपत्नीति निर्देशो न स्यात् । ननु 'सादेः पत्युर्नः' इत्येकयोगो विधीयतां, सादित्वेन बहुव्रीहावपि अन्यस्मिन् वा भविष्यति, नैवम् - मुख्यादित्यधिकारात् सादावेव स्यात्, न तु बहुव्रीहौ, पृथग्योगे तु पूर्वसूत्रे मुख्यादिति बहुव्रीहिसमासस्यैव विशेषणं, न पत्युः ।। २. ४. ४६ ।।
सपत्न्यादौ । २. ४. ५० ।।
सपत्न्यादौ यः पतिशब्दस्तस्मात् स्त्रियां ङीर्भवति, नकारश्चान्तादेशः ; पुनविधानं नित्यार्थम् । समानः पतिरस्याः समानस्य पतिरिति वा - सपत्नी, एवम् - एकपत्नी, वीरपत्नी, पिण्डपत्नी, भ्रातृपत्नी, पुत्रपत्नी; षडेते सपत्न्यादयः । समुदायनिपातनं समानस्य सभावार्थम्, पुंवद्भावप्रतिषेधार्थं चसपत्नीभार्यः, सपत्न्या अयं - सापत्नः ।। ५० ।।
5
10
न्या० स० - सपत्न्यादौ । सभावार्थमिति-धर्मादिषु पत्नीशब्दस्यापाठादित्यर्थः । पुंवद्भावप्रतिषेधार्थं चेति - " परतः स्त्री० " [ ३. २.४९ ] इति " जातिश्च णि० " २. ३. ५१. ] इति च प्राप्तस्य ।। २. ४. ५० ।।
ऊढायाम् ॥ २. ४. ५१ ।।
पत्युः केवलाद्दृढायां-परिणीतायां स्त्रियां ङीर्भवति, नकारश्चान्तादेशः 115 पत्नी, यजमानस्य पत्नी, वृषलस्य पत्नी । ऊढायामिति किम् ? पतिरियं संगृहीता, प्रभार्या वेत्यर्थः ।। ५१ ।।
न्या० स०—– ऊढायाम् । याऽग्निसाक्षिपूर्वकेण पाणिग्रहणेन परिणीता सेह गृह्यते । तदन्तविधिश्व नामग्रहणे नाश्रीयत इत्याह- केवलादिति । संगृहीतेत्यत्र अनग्निसाक्षिकं कामादितमदारकर्मत्वे परिगृहीतेत्यर्थः । प्रभार्या चेत्यत्र भार्याया अन्या20 प्रधानभूता भगिन्यादिरुच्यते ।। २. ४. ५१ ।।
पाणिगृहीतीति ॥ २. ४. ५२ ।।
इतिशब्दः प्रकारार्थः, पाणिगृहीतीप्रकाराः शब्दा ऊढायां स्त्रियां ङयन्ता निपात्यन्ते । पाणिगृहीतोऽस्याः पाणौ वा गृहीता - पाणिगृहीती, एवंकरगृहीती, पाण्यात्ती, करात्ती । ऊढायामिति किम् ? यस्या यथाकथञ्चित् 25 पाणिगृह्यते सा पाणिगृहीता । बहुव्रीहावेवेच्छन्त्यन्ये ।। ५२ ।।