________________
[पा० ४. सू० ४८-४६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३८३
न्या० स०--अनाच्छा०। आच्छादशब्द: करणसाधनकप्रत्ययान्तः, तस्य च नविशिष्टस्य जात्या कर्मधारयः, तत आदिशब्देनावयवार्चन बहुव्रीहिः कार्यः । शाङ्गरजग्धीति-शाङ्गरशब्दस्तालव्यादिरव्युत्पन्नः । मासयातेत्यादिषु मास-संवत्सरशब्दयोः कालवचनत्वाद् बहु-सुख-दुःखानां च गुणवचनत्वान्नस्त्वभाववचनत्वादजात्यादेरिति व्यावृत्त्या निषिध्यते । वृक्षप्रतिपन्न ति-वृक्षात् प्रतिपन्नमनया। शाङ्गरप्रियेति-शाङ्गरं 5 प्रियमस्याः ।। २. ४. ४७ ।।।
पत्युनः ॥ २. ४. ४८ ॥
पत्यन्ताद् बहुव्रीहेः स्त्रियां ङीर्वा भवति, तत्संनियोगेऽन्तस्य नकारादेशश्च । दृढः पतिरस्या दृढपत्नी, दृढपतिः; स्थिरपत्नी, स्थिरपतिः; स्थूलपत्नी, स्थूलपतिः; वृद्धपत्नी, वृद्धपतिः । मुख्यादित्येव-बहुस्थूलपतिः पुरी,10 अत्र हि पत्यन्तो बहुव्रीहिर्मुख्यो न भवति, यस्तु मुख्यः स पत्यन्तो न भवति; यदापि स्थूलश्चासौ पतिश्चेति कर्मधारये सति बहवः स्थूलपतयो यस्यामिति बहुव्रीहिस्तदापि स्थूलपत्यन्तो बहुव्रीहिर्न पत्यन्त इति न भवति ।। ४८ ।।
न्या० स०--पत्युनः। पत्युरिति पञ्चम्यन्तमधिकृतस्य बहुव्रीहेविशेषणं, तेन च तदन्तविधिरित्याह-पत्यन्तादिति । बहुस्थूलपतिः पुरीति-स्थूलाः पतयो यासां ता:15 स्थूलपतय इति कृते “पत्युनः" इति नविकल्पनाद् बहवः स्थूलपतयो यस्याम् । मुख्यो न भवतीति-द्वितीयेन बहुव्रीहिणा बाधितत्वात् । पत्यन्तो न भवतीति-किं तर्हि ? स्थूलपत्यन्तः ।। २. ४.४८ ॥
सादेः ॥ २. ४. ४६ ॥
सपूर्वात् पतिशब्दात् स्त्रियां ङीर्वा भवति, अस्य च नकारोऽन्तादेशः; 20 पूर्वेणैव सिद्धे पुनर्वचनं बहुव्रीहिनिवृत्त्यर्थम् । ग्रामस्य पतिः-ग्रामपत्नी, ग्रामपतिः; आशापत्नी, आशापतिः; अधिष्ठात्री पति:-अधिपत्नी, अधिपतिः; ईषदूना पतिः-बहुपतिः, बहुपत्नी। सादेरिति किम् ? पतिरियम्, ग्रामस्य पतिरियम् । मुख्यादित्येव-अतिक्रान्ता पतिमतिपतिः । गौरणादपीच्छन्त्यन्येअतिपत्नी, अतिपतिः । यदा तु पत्नीशब्दस्य षष्ठयन्तेन समासस्तदा राजपत्नी25 शूद्रपत्नीत्याद्येव भवति ।। ४६ ।।
न्या० स०-सादेः। सह विद्यमानवचनो न तु तुल्ययोगवचनः सपत्न्यादाविति