________________
३८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ४५-४७.]
क्तादल्पे ॥ २. ४. ४५ ॥
क्तप्रत्ययान्ताद् नाम्नः करणादेरल्पेऽर्थे स्त्रियां ङीर्भवति । अभ्रविलिप्ती द्यौः, सूपविलिप्ती स्थाली; अल्पाभ्रा, अल्पसूपेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री, अनल्पेन चन्दनेन लिप्तेत्यर्थः ।। ४५ ।।
न्या० स०--क्तादल्पे। अभ्रविलिप्तीति-पूर्ववदस्याद्यन्तेन समासः। सूपवि- 5 लिप्तीति-अल्पार्थस्य गम्यमानत्वादल्प-शब्दस्याप्रयोगः ।। २. ४. ४५ ।।
स्वाक्षादेरकृत-मित-जात-प्रतिपन्नाद् बहुव्रीहे.
॥ २. ४. ४६ ॥ स्वाङ्गादेः कृतादिवजितात् क्तान्ताद् बहुव्रीहेः स्त्रियां ङीर्भवति । शङ्खौ भिन्नावस्याः शङ्खभिन्नी, ऊरुभिन्नी, केशविलूनी; गलकोत्कृत्ती। कृता-10 दिवर्जनं किम् ? दन्तकृता, दन्तमिता, दन्तजाता, दन्तप्रतिपन्ना । बहुव्रीहेरिति किम् ? हस्ताभ्यां पतिता हस्तपतिता, पादपतिता ।। ४६ ।।।
___ न्या० स०--स्वाङ्गादेः । पूर्ववत् पारिभाषिकं स्वाङ्गम् । क्तान्ताद् बहुव्रीहेरिति-कृतादिवजितो यः क्तः क्तान्त इति “विशेषणमन्तः" [७. ४. ११३. ] इति न्यायात्, सोऽन्ते यस्य बहुव्रीहेः। “जातिकाल." [३. १. १५२.] इति शङ्खादेः प्राग15 निपातः । हस्ताभ्यां पतित इति कार्यमन्यथा अदन्तत्वाभावेनैव ङीप्राप्ति स्ति ।। २. ४. ४६ ।।
अनाच्छादजात्यादेर्नवा ॥ २. ४. ४७ ।।
आच्छादवजिता या जातिस्तदादेः कृतादिवजितक्तान्ताद् बहुव्रीहेः स्त्रियां ङीर्वा भवति । शाङ्गरो जग्धोऽनया शाङ्गरजग्धी, शाङ्गरजग्धा; पलाण्डु-20 भक्षिती, पलाण्डुभक्षिता। अनाच्छादग्रहणं किम् ? वस्त्रच्छन्ना, वसनच्छन्ना । जात्यादेरिति किम् ? मासयाता, संवत्सरयाता, बहुयाता, अयाता, सुयाता, सुखयाता, दुःखयाता; पूर्वेणापि न भवति, अस्वाङ्गादित्वात् । अकृताद्यन्तादित्येव-कुण्डकृता, कुण्डमिता, पलाण्डुजाता, वृक्षप्रतिपन्ना। क्तादित्येवशाङ्गरप्रिया ।। ४७ ।।
.
.
... 25