________________
[पा० ४. सू० ४३-४४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३८१
कबरं - कर्बुरं कुटिलं वा पुच्छमस्या : - कबरपुच्छी, मरिणः पुच्छेऽस्या मणिपुच्छी, विषं पुच्छेऽस्या विषपुच्छी; शरं पुच्छेऽस्याः शरपुच्छी ।। ४२ ।।
न्या० स०-- कबरम० । “न सप्तमोन्द्वादिभ्यश्व" [ ३. १. १६५. ] इत्यनेन मरिण - पुच्छीत्यादिषु मण्यादिशब्दानां पूर्वनिपातः ।। २. ४. ४२ ।।
पक्षाच्चोपमानादेः ।। २. ४. ४३ ।।
उपमानपूर्वात् पक्षशब्दात् पुच्छशब्दाच्च स्त्रियां ङीर्भवति । उलूकस्येव पक्षावस्या उलूकपक्षी शाला, उलूकस्येव पुच्छमस्या उलूकपुच्छी सेना ।। ४३ ।।
5
न्या० स० -- पक्षाच्चो० । उपमीयतेऽनयेति बाहुलकात् "उपसर्गादात:" [५. ३. ११०.] इत्यङ, प्रसिद्धसाधर्म्यादिप्रसिद्धविषये येन ज्ञानमुपजन्यत इति । " कबर - मरिण - 10 विष- शरादेः पक्षाच्चोपमादेस्तु" इत्येकयोगाकरणात् स्वाङ्गादेरिति निवृत्तम् । उलूकस्येव पक्षावस्या इति प्रत्र उलूकशब्द उलूकपक्षे उलूकपुच्छे च वर्त्तते, यथोष्ट्रमुखे उष्ट्रशब्द:, अतश्चोलूकशब्द उपमानं भवतीत्युलूक इव पक्षावस्या इत्यादिविग्रहः, उलूकस्येव पक्षावित्यादि त्वर्थकथनम् ।। २. ४. ४३ ॥
क्रीतात् करणादे ॥ २. ४. ४४ ॥
करणमादिरवयवो यस्य तस्मात् क्रीतान्ताद् नाम्नोऽकारान्तात् स्त्रियां ङीर्भवति । अश्व ेन क्रीयते स्म श्वक्रीती, धनक्रीती, वस्त्रक्रीती, विभक्त्युत्त्पत्तेः पूर्वमेव कृदन्तेन समासः ; मनसाक्रीती, अलुप् । करणग्रहणं किम् ? सुक्रीता, दुष्क्रीता । आदिग्रहणं किम् ? अश्व ेन क्रीता, नह्यत्र करणं क्रीतान्तस्य नाम्न आदिरवयवो भवति, ऐकपद्याभावात् । कथं " सा हि तस्य धनक्रीता 20 प्राणेभ्योऽपि गरीयसी" इति, धनं च सा क्रीता चेति कर्मधारयोऽयम्, करणविवक्षायामपप्रयोग एव । केचित् तु धनेन क्रीतेत्यत्राबन्तेनापि समासमिच्छन्ति बहुलाधिकारात्, तदाऽकारान्तत्वाभावात् ङीनं भवति ।। ४४ ।।
15
न्या० स० —— क्रीतात् कर० । केचित् त्विति - तन्मतेऽपि प्रत्ययोत्पत्तेः प्रागिति समासो बहुलाधिकाराल्लभ्यते, मन्मतेऽपि बहुलाधिकाराश्रयणे तथैव ।। २. ४. ४४ ।।
25