________________
[पा० ४. सू० ६०–६२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३८६
पूतक्रतु-वृषाकप्यग्नि- कुसित - कुसिदादै च ॥ २. ४. ६० ॥
एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो ङीर्भवति, तत्संनियोगे ऐकारश्चान्तादेशः । पूतक्रतोर्भार्या - पूतक्रतायी, एवं वृषाकपायी, ग्रग्नायी, कुसितायी, कुसिदायी । योगादित्येव - पूताः क्रतवो यया सा पूतक्रतुः एवंवृषाकपिर्नाम काचित् ।। ६० ।।
न्या० स० -- पूतक्रतु० । ननु कुसिदादै चेति पञ्चमीनिर्देशादेकारः प्रत्यय एव विज्ञायते, ततश्च ङी ऐकारश्च प्रत्ययौ भवत इति सूत्रार्थः कथं न लभ्यते, कथमुक्तमैकारवान्तादेश इति नैष दोष:- " एयेऽग्नायी” [ ३. २. ५२. ] इति निर्देशात्, न ह्यकारस्य प्रत्ययत्वे अग्नायीति भवति । वृषो धर्मः, कपिर्वराहस्ताद्रूप्यात् पृषोदरादित्वाद् दीर्घे - वृषाकपिः, वृषं दानवमात्रम्पितवान् वा “अम्भि कुण्ठि" [ उरगा० ६१४. ] इति इ: 110 कुसितकुसिदो ऋषी ।। २. ४. ६० ।।
मनोरौ च वा ॥। २. ४. ६१ ।।
मनोर्धवनाम्नस्तद्योगात् स्त्रियां वर्तमानाद् ङीर्वा भवति, तत्संनियोगे ऐकारश्चान्तादेशो भवति । मनोर्भार्या -मनावी,
मनायी,
कार मनुः ।। ६१ ।।
5
न्या० स०-- मनोरौ० । प्रत्ययसंनियोगार्थं चकारोऽनुवर्त्तते । वाशब्दः प्रथमं विधेयतया प्रधानेन ङीप्रत्ययेन संबध्यते, न त्वौकारेण तत्संनियोग विधानेनाप्रधानत्वादिति ।। २. ४. ६१ ।
15
वरुणेन्द्र- रुद्र-भव- शर्व - मृडादान् चान्तः ।। २. ४. ६२ ।।
एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो ङीर्भवति, तत्संनियोगे 20 च आनन्त आगमो भवति । वरुणस्य भार्या - वरुणानी, एवम्-इन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी । कश्चित् त्वाहिताग्नेर्भार्या - ग्राहिताग्न्यानी, एवं प्रजापत्यानी, वणिजानीत्यादावपीच्छति इन्द्रमाचष्टे इन्द्र, तद्भार्या - इन्द्राणी, एवं - मातुलानीत्यपरः ।। ६२ ।।
न्या० स० -- वरुणेन्द्र० । आनन्त आगमो भवतीति श्रानिति दीर्घोच्चारणं25