________________
३७८ ]
बृहवृत्तिलघुन्याससंवलिते
[पा० ४. सू० ३७-३८.]
क्नः पलिता-सितात् ॥ २. ४. ३७ ॥
त इति चेति चानुवर्तते, पलितासिताभ्यां स्त्रियां ङीर्वा भवति, तत्संनियोगे तकारस्य क्नादेशश्च । पलिक्नी, पलिता; असिक्नी, असिता ।। ३७ ।।
न्या० स०--क्नः पलिता। ङीप्रत्ययसम्बन्धे पञ्चमी, तस्यैव च विकल्प 5 इत्याह-ङोर्वेति । असिक्नीति-असितशब्देनाधर्मानृतन्यायेन सितप्रतिपक्षो वर्ण उच्यते, तदैव ङीप्रत्ययः क्नादेशश्च, यदा तु सिता-बद्धा, न सिताऽसितेति तदा न स वर्ण इति तत्र द्वयमपि न भवति। पलितशब्दोऽपि केशरोगविषये वर्ण, पलितमस्या अस्ति अभ्राद्यः, या गौर्लघ्व्यपि गर्भ दधाति सा असिक्नी अन्तःपुरदूती च ।। २. ४. ३७ ।।
असह-न-विद्यमानपूर्वपदात् स्वाक्षादक्रोडादिभ्यः 10
।। २. ४. ३८ ॥ सह-नत्र -विद्यमानवजितपूर्वपदं यत् स्वाङ्ग, तदन्तात् क्रोडादिगणवजितान्नाम्नोऽकारान्तात् स्त्रियां ङीर्वा भवति । पीनस्तनी, पीनस्तना; अतिक्रान्ता केशानतिकेशी, अतिकेशा माला; निष्क्रान्ता केशेभ्यो निष्केशी, निष्केशा यूका; स्वडी, स्वडा वृश्चिकी, अडो नाम वृश्चिकाद्यवयवः । असहनत्र -15 विद्यमानपूर्वपदादिति किम् ? सहकेशा, अकेशा, विद्यमानकेशा। स्वाङ्गादिति किम् ? बहुयवा। अक्रोडादिभ्य इति किम् ? कल्याणी क्रोडा अस्याः कल्याणक्रोडा, क्रोड-शब्दः स्त्रीक्लीबलिङ्गः; कल्याणखुरा, पीनगुदा, एकशफा, दीर्घबाला, भव्यभाला, सुगला, सुभगा; कल्याणी उखा-स्फिक् यस्याः सा कल्याणोखा, कल्याणगोखा। बहुवचनमाकृतिगणार्थम्, तेन-20 किशलयकरा, मृणालभुजेत्यादि । आदित्येव-परमशिखा ।
"अविकारोऽद्रवं मत, प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ।। १॥"
इति च स्वाङ्गम् । अविकार इति किम् ? बहुशोफा । अद्रवमिति किम् ? बहुकफा। मूर्तमिति किम् ? बहुज्ञाना । प्राणिस्थमिति किम् ? 25