________________
[पा० ४. सू० ३६.]
श्रीसिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः
“सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते । श्राधेयश्चाक्रियाजश्व, सोऽसत्त्वप्रकृतिर्गुणः " ।। १॥
इति गुणमिह परिभाषन्ते । सत्त्वं- द्रव्यम्, तत्रैव निविशते—तदेवाश्रयति यः स गुण इति संबन्धः । द्रव्यादपैत्यपगच्छति यथाऽऽन्नीलता पीततायामुपजातायाम्, पृथग्जातिषु - भिन्नजातीयेषु दृश्यते, यथा सैव नीलता आम्र 5 दृष्टा तरुणतृणेषु दृश्यते, एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं भवति । आधेय - उत्पाद्यो यथा कुसुमयोगाद् गन्धो वस्त्रे, यथा वाऽग्निसंयोगाद् घटे रक्तता । क्रियाजो - नित्यः, तद्यथाऽऽकाशादिषु महत्त्वादिः । तदेवं गुणस्योत्पाद्यत्वाऽनुत्पाद्यत्वप्रकारद्वयप्रदर्शनेनोत्पाद्यत्वैकप्रकारस्य कर्मणो व्यवच्छेदः । असत्त्वप्रकृतिः- द्रव्यस्वभावरहितः, अनेन द्रव्यस्य 10 व्यवच्छेदः ।। ३५ ॥
[ ३७७
न्या० स० - स्वरादुतो० । अर्थे कार्यासम्भवादुत इत्यादिविशेषरणायोगाच्चोपचाराद् गुरणवचनः शब्दो गुरण इत्युच्यते । स्त्रीत्वायोगादिति - उकारान्तस्य पुंस्त्वविधा - नादित्यर्थः । खरुरियमिति क्रूरा मूर्खा दर्पिष्टा श्वेता वा स्त्री, "खरुः स्यादश्व- हरयोर्दर्पदन्तसितेषु च " । यद्यपि महत्व रूपस्याकाशगुणस्यापैतीति विशेषणं न घटते तथाप्या-15 प्रादिस्थितनीलादिगुणस्य घटमानं सर्वस्यापि विशेषणं भवति, यथा कस्यचिद् गोश्वन्द्रक इति विशेषणं चिह्न कृतं चन्द्रकोऽयं गौरिति पश्चाद् गोसमूहोऽपि चन्द्रकोऽयमित्युच्यते तथाऽत्रापि भविष्यति ।। २. ४. ३५ ।
"
श्येतैत- हरित - भरत-रोहिताद् वर्णात् तो नश्च
।। २. ४. ३६ ॥20
एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा भवति, तत्संनियोगे तकारस्य नकारश्च भवति । श्येनी, श्येता; एनी, एता; हरिणी, हरिता; भरणी, भरता; रोहिणी, रोहिता; लत्वे - लोहिनी, लोहिता । वर्णादिति किम् ? श्येता, एता । चकारो नकारस्य ङोसंनियोगशिष्टतार्थः ।। ३६ ।
न्या० स० - श्येतैत ० । वाऽधिकारः प्रधानत्वात् प्रत्ययविधिनैव संबध्यते 125 श्येनीति - शुभ्रा । एनी कर्बुरा शुभ्रा वा । हरिणी नीला । भरणी पाटला धूसरा घृतवर्णा वा रोहिणी रक्ता इत्यर्थः ।। २. ४. ३६ ।।