________________
३७६ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ३३-३५.]
अङ्कति । अहंतीति-दानेऽपि "तिरयों-ऽहति-शाणी" [लिङ्गानुशासने] इति स्त्रीत्वम् । ' शस्त्रीति-"शसू हिंसायां" "रा-शदि०" [उणा० ६६६.] इति बहुवचनादत्रौ । सातिरिति-"वन षण भक्तौ" सन्यादित्याशास्यमाना "तिक्-कृतौ०" [५. १. ७१.] इति तिकि "न तिकि दीर्घश्च" [४. २. ६६.] इति प्रात्वम् । शारिणरिति-श्यते: “का-वा-वी." [ उणा० ६३४. ] इति बहुवचनाण्णौ। क्तिमात्रेति-न तु क्त्यर्थवर्जनादित्यर्थः । कथ-5 मिति-अत्रापि क्तिप्रत्ययोऽस्तोत्याशङ्कार्थः। अन्ये विति-पाणिनेः पूर्वे। ननु 'कृच्छेषा उणादयः' इति न्यायात् कृदन्तेभ्यश्चेत्यनेनैवाञ्चतिप्रभृतीनामुणादीनां ङीभविष्यति किं तेषां पृथगुपादानेन ? सत्यम्-तन्मते उणादीनामञ्चतिप्रभृतिशोण्यन्तानामेव भवति, तेनाणीत्यादीषु ङीन भवति ।। २. ४. ३२ ॥
पद्धतेः ॥ २. ४. ३३ ॥
10 पद्धतिशब्दात् स्त्रियां ङीर्वा भवति । पद्धती; पद्धतिः। क्त्यर्थ प्रारम्भः ।। ३३ ॥
न्या० स०-पद्धतेः। पादाभ्यां हन्यते "श्वादिभ्यः" [५. ३. ६२.] क्तिः, "हिम-हति०" [३. २. ६६.] पदादेशः, अथवा हननं-हतिः, पादस्य हतिः ॥२. ४. ३३।।
शक्तेः शस्त्रे ॥२. ४. ३४ ॥
15 शक्तिशब्दाच्छस्त्रे स्त्रियां ङीर्वा भवति । शक्ती, शक्तिः । शस्त्र इति किम् ? शक्तिः -सामर्थ्यम् ।। ३४ ।।
न्या० स०--शक्तः शस्त्रे। शक्तिशब्दस्य क्त्यन्तत्वादक्त्यर्थादिति प्रतिषेधे प्राप्ते शस्त्रवाचिनो विकल्प प्रारम्यत इति ।। २. ४. ३४ ।।।
20
स्वरादुतो गुणादरखरोः ॥ २. ४. ३५ ॥
स्वरात् परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्ताद् गुणवचनात् खरुजितान्नाम्नः स्त्रियां ङीर्वा भवति । गुणादिति सामान्योक्तावपि केवलगुणवृत्तेः स्त्रीत्वायोगात् ततो द्रव्यवृत्तेः प्रत्ययः । पट्वी, पटुः; मृद्वा, मृदुः; बह वी, बहुः; साध्वी, साधुः; तन्वी, तनुः; लघ्वी, लघुः; विभ्वी, विभुः । स्वरादिति किम् ? पाण्डुर्भूमिः। उत इति किम् ? श्वेता पटी। गुणादिति25 किम् ? पाखुः स्त्री, चिचीषुः स्त्री। अखरोरिति किम् ? खरुरियम् ।