________________
[पा० ४. सू० ३२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३७५
वर्णः, निर्दोषरक्तवर्ण इत्यर्थः । चण्डीति-कोपनायामनेनैव विकल्पः, गौर्यां तु गौरादिपाठान्नित्यं डीः। अरालशब्दो वक्रार्थोऽत्र दृष्टव्यः, पक्षिविशेषे तु गौरादौ। लक्ष्मयां कमली कमला। भरोऋषेर्जात:-भरुजः-ऋषिविशेषः। भरूजेति तु पाठान्तरम्, तदा "भृजङ -भर्जने' णिगन्तादचि, अत एव पाठा रेफात् परतो दीर्घ ऊकारागमे-भरूजा:स्नेहभृष्टाः किल तन्दुला:। ध्वजी ध्वजा कल्पपालभार्या दशवक्रा च । वृत्रघ्नीति- 5 केवलस्य हन्शब्दस्याप्रयोगात् तदन्तमुदाहरति । चन्द्रभागीति-चन्द्रभागयोः पर्वतयोरदूरभवा नद्यपि चन्द्रभागी। अणन्तान्नद्यामित्येके। चान्द्रभागीति-चन्द्रभागाभ्यां गिरिभ्यां प्रभवति अण ।। २. ४. ३१ ।।
इतोक्त्य र्थात् ॥ २. ४. ३२ ॥
इकारान्तानाम्नः स्त्रियां ङीर्वा भवति, न चेत् तत् क्त्यर्थप्रत्ययान्तं 10 स्यात् । भूमी, भूमिः ; अगुली, अङ्गुलिः; धूली, धूलिः; अाली, पालिः; धमनी, धमनिः; दर्वी, दर्विः; श्रोणी, श्रोणिः; राजी, राजिः; प्रावली, प्रावलिः; यष्टी, यष्टिः; शारी, शारिः; सरणी, सरणिः; अशनी, अशनिः; अरणी, अरणिः, शकृत्करी, शकृत्करिः; प्रात्मभरी, आत्मभरिः; कपी, कपिः; अही, अहिः; तारी, तारिः, मुनी, मुनिः; अञ्चती, अञ्चतिः; 15 अङ्कती, अङ्कतिः; अंहती, अंहतिः; शकटी, शकटि:; शस्त्री, शस्त्रिः , रजनी, रजनिः; धरणी, धरणिः, रात्री, रात्रिः । अक्त्यर्थादिति किम् ? कृति; हृतिः, अजननिः, अकरणिः, ज्यानिः, ग्लानिः; हानिः । कथं साती ?, साति: ?-तिगन्ताद् भविष्यति । अन्ये तु अञ्चति-प्रति-अंहति-शकटिशस्त्रि-शारि-तारि-अहि-कपि-मुनि-रात्रि-यष्टिभ्यः कटि-श्रोणि-प्रभृतिप्राण्यङ्ग-20 वाचिभ्यः क्तिवजितकृदन्तेभ्यश्च कारान्तेभ्य इच्छन्ति, नान्येभ्यः, तन्मते-शोभनो गन्धो यस्याः सा सुगन्धिः, सुरभिगन्धिः; निर्गता कौशाम्ब्या निष्कौशाम्बिः, आरिणः, शारिणः-इत्यादिषु न भवति, क्तिमात्रवर्जनाच्चाकरणि-अजननि-ज्यानिग्लानिप्रभृतिषु न प्रतिषेधः ।। ३२ ।।
न्या० स०-इतोऽक्त्यर्थात्। आवलोति-पाङ पूर्वाद् वले: “पदि-पठि."25 [उणा० ६०७.] इति इकारे । सरणीति-स्रियते गम्यतेऽनया "ऋ-ह-सृ०" [उणा० । ६३८.] इत्यादिनाऽरिणः । अरणीति-अग्निनिर्मथनकाष्ठम् । जनपदे भवा जाता वा
"उत्सादेरञ्" [६. १. १६.] । अञ्चतेर्भार्याऽभेदोपचारेण अञ्चतीति-अग्निभार्या, अप्राप्तमपि धवयोगात् स्त्रीत्वम् । अङ्कतिः-वायुब्रह्माग्निः, तेषां भार्याऽभेदोपचारेण