________________
३७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ३१.]
भाज्यत इति भाजी पक्वा चेत्, भाजान्या; गोणी आवपनं चेत्, गोणान्या; ' नागी स्थूला चेत्, नागान्या; जातौ तु नाग्येव, तस्याः स्थौल्याभावात् । स्थली अकृत्रिमा चेत्, स्थलान्या; कुण्डी अमत्रं चेत्, कुण्डान्या; काली कृष्णा चेत्, कालान्या; कुशी प्रायसी चेत्, कुशान्या; कामुकी रिरंसुश्चेत्, कामुकान्या; कटी श्रोणी चेत्, कटान्या; कबरी केशपाशश्चेत् कबरान्या; जानपदशब्दादपि 5 वृत्ताविच्छत्यन्यः-जानपदी वृत्तिः, वृत्तेरन्यत्र-जानपदा मदिरा ।। ३० ।।
___ न्या० स०--भाज-गोण। भाजीति-“भजण् विश्राणने" इत्यस्य भाज्यतेविश्राण्यते दीयते "णिवेत्त्यास०" [५. ३. १११] इत्यने प्राप्ते बाहुलकात् “शंसि०" [ ५. ३. १०५. ] इति अः. अथवा "स्थादिभ्यः कः" [५. ३. ८२.] इति कः । कुण्डोति-इह कुण्डशब्दस्य डीविधानं विस्पष्टार्थमेव, जातिवचनात् “जाते:०" [२. ४.10 ५४. ] इत्यनेनैव सिद्धत्वात् । कुण्डान्येति-"कुडुङ दाहे" "क्त ट०" [ ५. ३. १०६. ] इत्यप्रत्यये "प्रात्" [ २. ४. १८. ] इत्यापि क्रियाशब्दोऽयम् । कालयति मन इति अचि [कालो]। कुशान्येति-काष्ठमयी तदाकृतिर्वल्गा वा। केशपाश इति-"क्लिशः के च" [उणा० ५३०.] इति शे-केशः । “पांक् रक्षणे” “पा-दा-वमि०" [ उणा० ५२७. ] इति शे-पाशः। केशपाशः केशवेषः केशानां वेषः केशरचनाविशेष इत्यर्थः। नागेति-न15 अगः “नखादयः” [३. २. १२८.] ।। २. ४. ३० ।।
नवा शोणादेः ॥ २. ४. ३१ ॥
शोणादेर्गणात् स्त्रियां ङीर्वा भवति । शोणी, शोणा; चण्डी, चण्डा । शोण, चण्ड, अराल, कमल, कृपण, विकट, विशाल, विशङ्कट, भरूज, ध्वज, कल्याण, उदार, पुराण, बहु, बहुः, बह वी;-एवंनामा काचित्, गुणवचनात्20 तूत्तरेणैव भविष्यति । हन्-वृत्रघ्नी, वृत्रहा। चन्द्रभागान्नद्याम्-चन्द्रभागी, चन्द्रभागा नाम नदी, नद्या अन्यत्र चन्द्रभागा नाम देवता। अनद्यामिति केचित्-चन्द्रभागी, चन्द्रभागा काचित्, अनद्यामित्येव-चन्द्रभागा नाम नदी। अण्णन्तान्नद्यामित्येके-चान्द्रभागी, चान्द्रभागा नाम नदी; अण्णन्तान्नित्यं प्राप्ते विकल्पः । अनद्यां तु नित्यं डी:-चान्द्रभागी छाया । अन्ये तु अण्णन्ता-25 देवार्थभेदेन विकल्पमिच्छन्ति-नद्यामाप्प्रत्ययोऽन्यत्र ङीप्रत्ययः-चान्द्रभागा नदी, चान्द्रभागी वनराजिः ।। ३१ ।।
न्या० स०-नवा शो०। शोणीति-“शोण वर्णे' अस्याऽचि-शोण उज्ज्वलो