________________
[ पा० ४. सू० २६-३०. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
संज्ञायाम् । नीली, नीला; प्रबद्धा चासौ विलूना चेति प्रबद्धविलूनी, प्रबद्धविलूना ।। २८ ।
[ ३७३
न्या० स०–०क्ताच्च० । प्रबद्धा चासौ विलूना चेतीति- अर्थकथनमिदं, प्रबद्धश्चासौ विलूनच स्त्री चेदिति तु कार्यम्, अन्यथा गौणत्वाभावात् "गोश्चान्त०” [ २. ४. ε६. ] इत्यत्राप्रवृत्तावदन्तत्वाभावाद् ङीर्न स्यात्, औषधिविशेष:, प्रखण्डः संज्ञाशब्दः, व्युत्पत्ति - 5 मात्रमिदम् ।। २. ४. २८ ।।
केवल मामक-भागधेय - पापा- अपर-समाना-ssर्यकृतसुमङ्गल- भेषजात् ॥ २. ४. २६ ॥
एभ्यः स्त्रियां ङीर्भवति, नाम्नि | केवली नाम ज्योतिः, मामकी, भागधेयी, पापी, अपरी, समानी, आर्यकृती, सुमङ्गली, भेषजी । नाम्नीति 10 किम् ? केवला । मामकशब्दादनन्तत्वेनैव ङीसिद्धौ नाम्नि नियम्यते, तेनमामिका बुद्धिरित्यसंज्ञायामञ्लक्षणोऽपि ङीर्न भवति ।। २६ ।।
न्या० स० - केवल - माम० । केवलीति - केव्यते-सेव्यते केवलिभिरिति “मृदिकन्दि - कुण्डि ०" [ उरणा० ४६५. ] इत्यल: । मामकशब्दादिति - ननु कथं मामकग्रहरणं नियमार्थं ? शोभनो मामकोऽस्याः सुमामकेत्यत्र तदन्तविधेरिष्टत्वाद् विध्यर्थताप्युपपद्यत 15 एव, विधि-नियमसंभवे हि विधेरेव ज्यायस्त्वात्; सत्यामपि वा नियमार्थतायां विपरीतनियमः कस्मान्न भवति - मामकशब्दस्यैव नाम्नीति; प्रत्रोच्यते - इह प्रकरणे तदन्तविधेरिष्टत्वेऽपि मुख्याधिकारादमुख्यमा मकशब्दान्तान्न ङी, केवलैरेव चेतैः संज्ञाप्रतीतिर्न त्वमुख्यतदन्तैः, अत एव केवला एव केवलादय उदाहृता न कृतसमासा इत्युपपद्यत एव नियमार्थता विपरीतनियमोऽपि न भवति, तदा हि केवलादीनामपि संज्ञायां ङीनिवर्त्तित: 20 स्यात्, संज्ञापि बाध्येति तेषां वैषम्यं स्यात्, यथोक्तनियमे तु न किञ्चिन्नोपपद्यत इति । अपरीति-पिपर्तीति प्रचि परः, तस्य नञ्समासेऽपरी । भेषजीति - " भेषृग् भये" घत्रि भेषं जयति "क्वचित्" [ ५. १. १७१. ] इति डे । मामकी - मातुली । भागधेयी - बलिः । पापी, अपरी श्रोषष्यौ । समानी छन्दः । आर्यकृती क्रियाविशेषः । सुमङ्गली छन्द ओषधिर्वा । भेषजी प्रोषधिः ।। २. ४. २६ ।।
25
भाज- गोण- नाग-स्थल - कुण्ड-काल- कुश· कामुक व Cकबरात् पक्वा-ssवपन-स्थूला-कृत्रिमा-मत्र- कृष्णा-ssयसीरिरंसु श्रोणि- केशपाशे ॥ २. ४. ३० ॥ भाजादिभ्यो दशभ्यो यथासंख्यं पक्वादिष्वर्थेषु स्त्रियां ङीर्भवति, नाम्नि ।