________________
३७२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
.
[पा० ४. सू० २६-२८.]
रेवत-रोहिणाद् भे ॥ २. ४. २६ ॥
भं-नक्षत्रम्, रेवत-रोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां ङीर्भवति । रेवती, रोहिणी । यदापि "चित्रारेवती-रोहिण्याः स्त्रियाम्" [६. ३. १०८.] इति जाता यस्याणो लुकि डीप्रत्ययस्यापि लुग् भवति, तदापि नक्षत्रशब्दत्वात् पुनरनेन डीर्भवति-रेवत्यां जाता-रेवती, रोहिण्यां जाता--5 रोहिणीति । भ इति किम् ? रेवता, रोहिणा । कथं "रेवतीरमणो बलः, रेवती, शुष्करेवती ?" रेवच्छब्दो मत्वर्थीयान्तोऽस्ति, तत उदिल्लक्षणो ङीः । कथं रोहिणी ?, कटुरोहिणी ? रोहिणशब्दः प्रकृत्यन्तरमस्ति, ततो जातिलक्षणो डीभविष्यति ।। २६ ।।
___ न्या० स०-रेवत-रो०। रेवत्यां जाता रेवतीति-पत्र कन्या वाच्या, ततो10गौणोऽपि रेवतीशब्दो नक्षत्रे वर्तते । ननु “गौरादिभ्यः" [ २. ४. १६.] इत्यतो मुख्याधिकारे मुख्यादेव प्राप्नोति, तत् कथमत्र गौणात् ?, सत्यम्-मुख्याधिकारेऽपि क्वाऽपि शाब्दया वृत्त्या क्वाऽप्यार्थ्या वृत्त्या प्राधान्यं ग्राह्यम्, अत्र तावदा. वृत्त्या प्राधान्यम्, कथं ? नक्षत्रलक्षणोऽर्थो यदि वाच्यो न भवेत् तदा कथं तद्विशिष्ट: कालो वाच्यः स्यादमुना प्रकारेणेति। कथं रेवतीति-रीङच रीयते विच गुणः, रेर्मेथोऽस्यास्ति15 मत् “नाम्नि" [ २. १. ६५.] वत्वम् । रोहिणीति-स्त्रीपर्यायत्वादत्र रोहिणशब्दस्यानक्षत्रार्थाद् डोर्न प्राप्नोतीत्याशङ्का। प्रकृत्यन्तरमिति-अर्थभेदात् प्रकृतिभेद इत्यर्थः ।। २. ४. २६ ।।
नीलात् प्राण्यौषध्योः ॥ २. ४. २७ ॥
नीलशब्दात् प्राणिनि औषधौ च स्त्रियां ङीर्भवति । नीली वडवा,20 नीली गौः, नीली औषधिः । प्राण्यौषध्योरिति किम् ? नीला शाटी ॥ २७ ॥
न्या० स०-नी०। नीलीत्यत्र जातिशब्दादपि जातौ नित्यस्त्रीत्वात् “जाते:०" [ २. ४. ५४. ] इत्यप्राप्तेऽनेनैव ङीः। ये तु नीलः पट इत्यर्थान्तरेऽस्त्र्यर्थस्यापि दर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवेदमुदाहरणम्, जातिशब्दात् तु “जाते."25 [ २. ४. ५४. ] इति डीः सिद्ध एव ।। २. ४. २७ ।।
क्ताच्च नाम्नि वा ॥ २. ४. २८ ॥ नीलशब्दात् क्तान्ताच्च शब्दरूपात् स्त्रियां ङीर्वा भवति, नाम्नि