________________
[पा० ४. सू० २४-२५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३७१
विधानसामर्थ्यादलुपि। ननु बिस्तादय उन्मानवचनाः, तथाहि-बिस्तशब्देन षष्टिः पलशतान्युच्यन्ते, आचितशब्देन तौलकम्, कम्बल्यशब्देनाप्यूर्णापलशतम्, तत्राऽपरिमाणत्वाद् ङीप्रसङ्गाभावात् किं निषेधेन ?, नैवम्-अनेकार्थानि हि मानानि भवन्ति, तत्र देशविशेषे परिमाणार्थान्यपि तानि सन्ति, तदर्थं युज्यते एव निषेधः। “द्वित्रिबहोनिष्कबिस्तात्” [ ६. ४. ११४. ] इति इकण्लोपो द्विबिस्ताशब्दे ।। २. ४. २३ ।।।
काण्डात् प्रमाणादक्षेत्रे ॥२. ४. २४ ॥
प्रमाणवाचिकाण्डशब्दान्तादक्षेत्रविषयाद द्विगोस्तद्धितलुकि सति स्त्रियां ङीर्भवति । आयामः-प्रमाणम्, द्वे काण्डे प्रमाणमस्या:-द्विकाण्डी, त्रिकाण्डी रज्जुः । प्रमाणादिति किम् ? द्वाभ्यां काण्डाभ्यां क्रीता-द्विकाण्डा, त्रिकाण्डा शाटी। अप्रमाणादपीच्छन्त्यन्ये, तन्मते-द्विकाण्डी, त्रिकाण्डी शाटीत्येव भवति ।10 प्रक्षेत्र इति किम ? द्व काण्डे प्रमाणस्या:-द्विकाण्डा, त्रिकाण्डा क्षेत्रभक्तिः । अक्षेत्र इति द्विगोविशेषणं किम् ? काण्डस्य क्षेत्रविषयत्वेऽपि यथा स्यात्द्वाभ्यां काण्डाभ्यां क्षेत्रसंज्ञिताभ्यां क्रीता द्विकाण्डी वडवा, नात्र द्विगुः क्षेत्रविषयः, कि तहि ? काण्डशब्द इति ।। २४ ।।
न्या० स०-काण्डात् प्र० । क्षियन्ति निवसन्त्युप्तानि बीजानि वृद्धि वा गच्छन्त्य-15 स्मिन्निति "हु-या-मा०" [उणा० ४५१.] इति ।-क्षेत्रम्, षोडशहस्तप्रमाणं काण्डम् । क्षेत्रभक्तिरिति-भक्तिग्रहणं तद्धितार्थस्य स्त्रीत्वार्थम् । क्षेत्रसंज्ञिताभ्यामिति-यकाभ्यां काण्डाभ्यां क्षेत्र परिच्छिन्न ते ते काण्डे अपि क्षेत्रसंज्ञिते ।। २. ४. २४ ।।
पुरुषाद् वा ।। २. ४. २५ ॥
प्रमाणवाचिपुरुषशब्दान्ताद् द्विगोस्तद्धितलुकि स्त्रियां ङीर्वा भवति ।20 द्वौ पुरुषौ प्रमाणमस्याः-द्विपुरुषी, द्विपुरुषा; त्रिपुरुषी, त्रिपुरुषा परिखा। प्रमाणादित्येव-द्वाभ्यां पुरुषाभ्यां क्रीता-द्विपुरुषा, त्रिपुरुषा वडवा। तद्धितलुकीत्येव-पञ्चपुरुषा-रज्जुः, प्रमाणभूताः पञ्च पुरुषाः समाहृताः-पञ्चपुरुषी "द्विगोः समाहारात्" [२. ४. २२.] इति नित्यमेव ।। २५ ।।
न्या० स०-पुरुषाद् वा। द्विपुरुषीति-मात्रटो "हस्तिपुरुषाद् वाण्" [ ७. १.25 १४१. ] इत्यणो वा "द्विगो: संशये च' [ ७. १. १४४. ] इति लुप् ।। २. ४. २५ ।।