________________
३७० ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ४. सू० २३.]
पञ्चाजी, दशराजी, द्विकुडवी, पञ्चकुमारी। कथं त्रिफला ? ' अजादिपाठात् ।। २२ ॥
न्या० स०-द्विगोः समा०। सम्यगाहरणमेकीकरणं समाहारः। समाहारद्विगुसंज्ञेति-समाहारविशेषितेन द्विगुना नाम विशिष्यते, अयमर्थ:-समाहृति विना पञ्च रात्रयः प्रिया अस्य पञ्चरात्रप्रिय इत्यादावपि ङी: स्यात् । ननु द्वन्द्वसमाहारस्य "द्वन्द्व - 5 कत्व०" [लिङ्गानुशासने] इति नपुंसकत्व विधानेन स्त्रीत्वाभावात् समाहारादित्युक्तऽपि द्विगो: समाहारादिति लप्स्यते, कि द्विगग्रहणेन ?, अथोत्तरार्थमित्यपि न वाच्य तद्धितलुकीति करणात्, नैवम्-समाहारादित्युक्तौ समाहारान्तान्नाम्न इत्याशङ्कयेत, ततश्च वाक्त्वचमतिक्रान्ता अतिवाक्त्वचीति स्यात्, इष्टं च अतिवाक्त्वचेति ।। २.४.२२ ॥
10
परिमाणात् तद्धितलुक्यबिस्ताsचित-कम्बल्यात्
॥२. ४. २३ ॥ परितः-सर्वतो मानं परिमाणम्, तच्च रूढिवशात् प्रस्थादि, यदाहुः
"ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः ।
आयामस्तु प्रमाणं स्यात् संख्या बाह्या. तु सर्वतः" ।। १ ।। 15 बिस्तादिभ्यो यदन्यत् परिमाणं तदन्ताद् द्विगोरकारान्तात् तद्धितलुकि स्त्रियां ङीर्भवति । द्वाभ्यां कुडवाभ्यां क्रीता-द्विकुडवी, त्रिकुडवी; द्वयाढकी, त्र्याढकी। परिमाणादिति किम् ? पञ्चभिरश्व : क्रीता-पञ्चाश्वा दशाश्वा; द्विशता, त्रिशता। तद्धितलुकीति किम् ? द्विपण्या। अबिस्ता-ऽचितकम्बल्यादिति किम् ? द्वाभ्यां बिस्ताभ्यां क्रीता-द्विबिस्ता, त्रिबिस्ता,20 द्विपरमबिस्ता; द्वयाचिता, व्याचिता; द्विकम्बल्या, त्रिकम्बल्या ।। २३ ।।
न्या० स०--परिमारणा० । सर्वत आरोह-परिणाहाभ्यां मीयते परिच्छिद्यतेऽनेनेति परिमाणम्, परिच्छित्तिक्रियाकरणमात्रं परिमाणं नेह ग्राह्य, मानादित्यकरणादित्याहतच्चेति । तदन्तादिति-अर्थे कार्यासम्भवादिह, परिमाणवाची यः शब्दस्तदन्तादित्यर्थः । आढौकते मानाय अचि पृषोदरेत्यादिना साधुः, अथवा "कोचक०" [ उरणा० ३३. ]25 इति साधुः। द्विशतेत्यादि-"शताद्यः" [ ६. ४. १४५. ] इत्यस्य विधानसामर्थ्यान्न लुप, तस्य च विकल्पेन प्रवृत्तेः पक्षे “संख्या-डते:०" [ ६. ४. १३०. ] इति कः, “अनाम्न्यद्विः प्लुष्" [ ६. ४. १४१. ] । द्विपण्येति-"पणपाद०" [ ६. ४. १४८. ] इति ये तस्य च