________________
[पा० ४. सू० २१-२२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६६
न तस्याकारोऽस्ति इति । तथा बहुकुम्भकारा नगरी, बहुकुरुचरेत्यादि । २० ॥
न्या० स०-अरणजेयेकण ०। काण्डान् लविष्यामीति काण्डलावी "कर्मणोऽण" [५. ३. १४.] । पाणिनीयमिति-पणनं पणः "पणेर्माने" [५. ३. ३२.] अल्, सोऽस्यास्तीति पणी, तस्यापत्यं वृद्धं "ङसोऽपत्ये' [ ६. १. २८. ] अण्, पाणिनस्यापत्यं 5 युवा “प्रत इञ्" [ ६. १. ३१. ], पाणिनिना प्रोक्त "तेन प्रोक्त" [ ६. ३. १८१. ] इति विषये "यूनि लुप्" [ ६. १. १३७. ] इति इत्रो लुप्, अन्यथा “वृद्धत्रः" [६.३.२८.] इति स्यात्, यतो "वृद्धाधुनि" [ ६. १. ३०.] इत्यत्र यूनोऽपि वृद्धसंज्ञाकार्यदर्शनादित्युक्तम्, ततोऽत्रापि इजन्तस्यावृद्धेऽपि वर्तनं ज्ञेयं, ततो "दोरीयः" [६. ३. ३२.] । बहुकुम्भकारा नगरीति-अत्र बहवः कुम्भकारा यस्यामिति कार्यम्, यदा तु बह्वयः10 कुम्भकार्यो यस्यामिति क्रियते तदा "ऋन्नित्यदितः" [७. ३. १७१. ] इति कचि बहुकुम्भकारीकेति भवति ।। २. ४. २० ॥
वयस्यनन्त्ये ॥ २. ४. २१ ॥
प्राणिनां कालकृता शरीरावस्था बाल्ययौवनादि वयः, तस्मिन्ननन्त्येऽचरमे वर्तमानादकारान्तान्नाम्नः स्त्रियां ङीर्भवति । कुमारी, किशोरी, वर्वरी,15 कलभी, तरुणी, तलुनी, वधूटी, चिरिण्टी। धवयोगाभावविशिष्टं वयः कुमारीशब्दस्य प्रवृत्तिनिमित्तम्, न तु धवयोगाभावमात्रम्; वृद्धकुमारी तु उपमानात् । अनन्त्य इति किम् ? वृद्धा, स्थविरा। आदित्येव-शिशुः । कथं द्विवर्षा ?, त्रिवर्षा ?, उत्तानशय्या ?, लोहितपादिकेति ? नैता वयःश्रुतयोऽर्थात् तु वयो गम्यते । बाला वत्सेत्यादयस्त्वजादौ ।। २१ ।।
20 न्या० स०--वयस्य०। कूमारीति-एतेषां कूमारादयश्चत्वारः प्रथमवयोवचनाः, किञ्च तदन्तादपि विधिरिष्टः, परमश्चासौ कुमारश्च, स्त्री चेत् परमकुमारी। तरुणीतितरुणादयस्तु तावन्त एव कौमारादुत्क्रम्य नययौवनवचना इति । द्विवर्षा इति-द्वे वर्षे भूता "प्राणिनि भूते" [६. ४. ११२. ] इत्यः। उत्तानशय्येति-उत्ताना शेते "ऊर्ध्वादिभ्यः०" [ ५. १. १३६. ] अः ।। २. ४. २१ ॥
25
दिवगोः समाहारात् ॥ २. ४. २२ ॥ समाहारद्विगुसंज्ञकान्नाम्नोऽकारान्तात् स्त्रियां ङीर्भवति । पञ्चपूली,