________________
३६८ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० २०. ]
पक्षिविशेषार्थोऽत्र द्रष्टव्यः, वक्रार्थस्तु शौरणादौ द्रष्टव्यः । उदवड इति - "वड प्राग्रहणे " सौत्रो धातुः, उदकं वडति इति उदवडः पानीयहारिणीवाचकः कृमिजातिविशेषो वा । चण्ड इति - गौरीवाचक श्वण्डशब्दोऽत्र द्रष्टव्यः, कोपनावाचकस्तु शोरणादौ द्रष्टव्यः । उमाया भङ्ग इव भङ्गो यस्याः । हरी श्रोषधिस्तस्या इव करणा यस्या:, हरयः सुवर्णवर्णाः करणा यस्या वा । वटर: क्षुद्रजन्तुः, अधिकारं कारयति या स्त्री । करणे इति - 5 करणकारके इत्यर्थः । " ईषच् गतौ" ।। २. ४. १६ ।।
अणत्रेयेकण्-नत्र-स्नञ् टिताम् ॥ २. ४. २० ॥
अरणादिप्रत्ययानां योऽकारस्तदन्तान्नाम्नः प्रत्यासत्तेस्तेषामेवाणादीनां वाच्यायां स्त्रियां वर्तमानाद् ङीर्भवति । प्रण - उपगोरपत्यमौपगवी, तपोऽस्या अस्तीति तापसी, कुम्भकारी, काण्डलावी याति; अञ् - उत्सस्यापत्यमौत्सी, 10 दिस्यापत्यं पौत्री - बैदी, छत्र - चुरा - तपः शीलेति छत्रादित्वादत्रि - छात्री, चौरी, तापसी; एयण - सुपर्ण्या अपत्यं सौपर्णेयी, वैनतेयी; एयच् - शिलायास्तुल्या शिलेयी, एयञ् - शैलेयी, “ शिलाया एयच्च" [ ७. १. ११३. ], निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकरण - अक्षैर्दीव्यति प्राक्षिकी, प्रस्थेन क्रीता प्रास्थिकी; नम् - स्त्रिया अपत्यमियं वा स्त्रैणी; स्नञ् - पुंसोऽपत्यमियं वा पौंस्नी; टित्-15 जानु ऊर्ध्वं प्रमाणमस्या जानुदघ्नी, जानुद्वयसी, जानुमात्री, पञ्च अवयवा यस्याः पञ्चतयी, एवं द्वयी, त्रयी; शक्तिरायुधमस्याः शाक्तीकी, एवं याष्टीकी; ह्यो भवा ह्यस्तनी, एवमद्यतनी, श्वस्तनी, चिरन्तनी, परुत्तनी; भूतपूर्वा भिक्षु: - भिक्षुचरी, सक्त धानी, गायनी, कुरुचरी; प्रत्ययसाहचर्यादागमटितो न भवति - पठिता विद्या । शुनिन्धयी, स्तनन्धयीत्यादौ तु धातोष्टि- 20 त्करणस्यानन्यार्थत्वादटितोऽपि भवति । अरणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं किम् ? पाणिनिना प्रोक्तं पाणिनीयम्, “ तदधीते० " [ ६. २. ११७.] इत्यरण, तस्य "प्रोक्तात्" [ ६. २.१२६ . ] इति लोपे - पाणिनीया कन्येति ङीर्यथा मा भूत् । प्रत्यासत्त्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् ? गौतमेन प्रोक्ता नीतिगतमीति, ताम् “अधीते” [६. २. ११७.] इत्यण,25 तस्य " प्रोक्तात्" [६. २. १२६ . ] इति लोपे "ङयादे० " [२. ४. ε५.] इत्यादिना ङीलोपे च ङीर्यथा न स्यात् - गौतमा कन्या, अस्त्यत्राणोऽकारो न तु तदभिधेया नीतिलक्षणा स्त्रीप्रत्ययार्हा, यदभिधेया तु कन्यालक्षरणा स्त्रीप्रत्ययार्हा