________________
[पा० ४. सू० ३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३७६
दीर्घमुखा शाला। च्युतं च प्राणिनस्तदिति किमर्थम् ? अप्राणिस्थादपि पूर्वोक्ताद् यथा स्यात्-बहुकेशी, बहुकेशा रथ्या। तन्निभं च प्रतिमादिष्विति किमर्थम् ? प्राणिस्थसदृशादपि पूर्वोक्ताद् यथा स्यात्-पृथुमुखी, पृथुमुखा प्रतिमा। कथं कल्याणं पाणिपादमस्याः कल्याणपाणिपादा इत्यत्र न भवति ? स्वाङ्गसमुदायो हि न स्वाङ्गम्, बहुस्वरत्वेन वक्ष्यमाणनियमबलाद् वा न 5 भवतीति । द्विपादी, त्रिपादीत्यत्र तु "द्विगोः समाहारात्" [२. ४. २२.] इति विशेषविधानाद् नित्यमेव ङीर्भवति। अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये-पाणी एव पादौ यस्याः सा पाणिपादा, मुखमेव नासिका यस्याः सा मुखनासिका ।। ३८ ।।
न्या० स०--असहन०। सह-नञ्-विद्यमानशब्दानां पूर्वपदरूपाणां वर्जनात्10 मध्यपदेन स्वाङ्गस्य व्यवधानेऽपि ङीप्रतिषेधः, यथा-विद्यमानं कल्याणं मुखं यस्याः सा विद्यमानकल्याणमुखेति । पीनगुदेति-"नाम्युपान्त्य०" [५. १. ५४. ] इति के-गुदं स्त्रीणामपाङ्गम्-अपकृष्टमङ्गम्, कल्याणं गुदमस्या इति न्यासः । भव्यभालेति-“भलि भल्लि परिभा०" घत्रि-भालः ललाटः। कल्याणगोखेति-उखाशब्दसान्निध्यात् स्त्रीत्वं ज्ञायते। गोरिव खम्-इंद्रियं यस्याः सा गोखा, कल्याणा गोखा यस्या इति, अवयव-15 विशेषो जघनरूपः । अविकार इति-विकारो वातादिजन्मशोफादिः। अद्रवमितिद्रवणं द्रवः, न द्रवोऽस्येत्यद्रवम्, द्रवतीति द्रवं, न द्रवमद्रवं वा। मूर्त्तमिति-रूपादियोगो मूत्तिः, असर्वगतद्रव्यपरिमाणं वा, तद्योगान्मूर्तं पुद्गलद्रव्यम् । च्युतं च प्राणिन इतिअपरं लक्षणद्वयमुच्यते, तद्-अविकारादिलक्षणयुक्त, प्राणिनः च्युतमपि स्वाङ्ग भवति ।। २. ४. ३८ ।।
20
नासिकोदरोष्ठ-जङ्घा-दन्त-कर्ण-शङ्काजगात्र
कण्ठात् ॥ २. ४. ३६ ॥ असह-नत्र -विद्यमानपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीष् भवति, पूर्वेण सिद्धे नियमार्थमिदम्, तेन-नासिकोदराभ्यामेव बहुस्वराभ्याम्, ओष्ठादिभ्य एव च संयोगोपान्त्येभ्यो भवति, नान्येभ्यः । तुङ्गनासिकी, तुङ्गनासिका; 25 कृशोदरी, कृशोदरा; बिम्बोष्ठी, बिम्बोष्ठा; दीर्घजङ्घी, दीर्घजङ्घा; समदन्ती, समदन्ता; चारुकर्णी, चारुकर्णा; तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा; मृदङ्गी, मृदङ्गा; सुगात्री, सुगात्रा; स्निग्धकण्ठी, स्निग्धकण्ठा। असह-नञ्