________________
३६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० १८-१६.]
[२. ४. ६. ] इति ङी: स्यात् । “वा पादः" [ २. ४. ६. ] इति प्राप्तेऽयमारभ्यते । ॥ २. ४. १७॥
आत् ॥ २. ४. १८ ॥
अकारान्तानाम्नः स्त्रियां वर्तमानादाप् प्रत्ययो भवति । खट्वा, सर्वा, या, सा। खट्वादीनामकारान्तत्वम्-अतिखट्वः, प्रियखट्वः; पञ्चभिः 5 खट्वाभिः क्रीत:-पञ्चखट्व इत्यादिप्रयोगदर्शनात्, उपदेशाच्च निश्चीयते । आदिति किम् ? सोमपाः स्त्री, दृषद्, समिद्, आदित्यधिकृतमुत्तरत्र यथासम्भवं योजनीयम् ॥ १८ ।।
न्या० स०--प्रात् । ननु या सेत्यादीनां 'यः, सः' इत्यादावकारान्तप्रयोगदर्शनादकारान्तत्वनिर्णयादस्तु तत आ, खट्वादीनां तु नित्यं स्त्रियां वर्तमानत्वादकारान्त-10 प्रयोगादर्शनात् तदनिश्चयात् कथं तेभ्य आबित्याशङ्कयाह-खट्वादीनामिति । उपदेशाच्चेति-यद्यकारान्तो न स्यात् ततो नाबन्त इति तस्यापद्वारेण ह्रस्वोऽपि न स्यादित्यर्थः । प्रादिति किमिति-अवर्णादिति क्रियतामित्यर्थः। सोमपाः स्त्रीति-सोमं पिबतीति विच्, आदिति वचनादत्राप् न भवति । ननु चात्राप्भावाभावयोराकारश्रुतेस्तथैव विद्यमानत्वात् किं तद्भावेन विनश्यतीति ? उच्यते-प्रापि सति “दीर्घड्याब्०"15 [१. ४. ४५.] इति सेर्लोपः स्यात्, तथा सोमपः कन्याः पश्येत्यत्र "लुगातोऽनापः" [२. १. १०७.] इति शसि लुग् न स्यात् ॥ २. ४. १८ ॥
गौरादिभ्यो मुख्यान्डी ॥ २. ४. १६ ॥
गौरादेर्गणान्मुख्यात् स्त्रियां ङीः प्रत्ययो भवति, मुख्यादित्यधिकारोऽयम् । गौरी, शबली। गौर, शबल, कल्माष, सारङ्ग, पिशङ्ग, हरिण,20 पाण्डुर, अमर, सुन्दर, विकल, विष्कल, पुष्कल, निष्कल; गौरादीनां गुणवचनत्वेनाजातिवाचित्वादप्राप्ते पाठः । यस्तु विकलेति कालविशेषवाची पाबन्तः स विगता कलेति भविष्यति । दास, चेट, विट, भिक्षुक, बन्धक, पुत्र, गायत्र, आनन्द, टेट, कटेट, नट; एषामजातिवचनत्वादप्राप्ते पाठः । काव्य, शैव्य, मत्स्य, मनुष्य, मुकय, हय, गवय, ऋश्य, दुरण, प्रोकण; एषां जातिवाचित्वेऽ-25 प्यष्टानां यान्तत्वाद् द्रुणौकणयोनित्यस्त्रीविषयत्वादप्राप्ते पाठः । भौरिकि, भौलिकि, भौलिङ्गि, औद्गाहमानि, प्रालम्बि, पालच्चि, कालच्चि, सौधर्म,