________________
[ पा० ४. सू० १७.] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६३
त्वात् "आत्" [ २. ४. १८. ] इत्यनेनाप्राप्तेरजादिपाठः, कश्चिदेतेभ्यो विकल्पेनेच्छति; तन्मते - क्रुङ्, देवविट्, उष्णिक् । अन्ये तु - क्रुञ्चानालभेत, उष्णिहककुभौ, देवविशश्च मनुष्य इति प्रयोगदर्शनात् अकारान्ता एवैत इति मन्यन्ते । अजादेरित्यावृत्त्या षष्ठीसम्बन्धः किम् ? अजादिसम्बन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात्, तेनेह न भवति - पञ्चानामजानां समाहारः- 5 पञ्चाजी, दशाजी; अत्र समाहारः समासार्थ स्त्री; नासावजशब्दसंबन्धिनी; अत एव च ज्ञापकादत्र स्त्रीप्रकरणे तदन्तादपि भवति, तेन - महांश्चासावश्चेति सामान्येन विग्रहे स्त्रीविवक्षायां महाजा परमाजेति सिद्धम्, एवमतिभवती, अतिमहती, प्रतिधीवरी, अतिपीवरी, परमशूद्रत्यादि ।। १६ ।।
न्या० स०—–श्रजादेः ० । एडकेत्यत्र 'ईडिक्' "कीचक० " [ उरणा० ३३. ] इति 110 बालेति–“बल प्राणने" बलतीति वा ज्वलादिणः । होडा इत्यत्र "हुरत् निमज्जने" ण्यन्तादचि उरणाद्यप्रत्ययो वा । मन्देति - ' मदुङ' प्रचि, उरणाद्यप्रत्ययो वा । मन्दाविलाते इति-मध्यमवपसौ स्त्रियौ । मध्येति “शिक्यास्याज्य मध्य ० " [ उणा० ३६४. ] इति निपातनात् मध्या । विपूर्वाल्लातेः क्त - विलातेति न्यासः । पूर्वापहाणेतिपूर्वश्र्वास पहा पूर्वापहानः, स्त्री चेत् पूर्वापहारणा, एवम् अपरापहारणा इति - यद्वा 15 पूर्वमपहीयतेऽस्यामिति “करण०” [ ५. ३. १२६. ] इत्यनट्, यद्वा अपहीयतेऽस्यामनया वा “करणाधारे” [ ५. ३. १२६ ] अनट् । अपहानशब्दोऽपि टिद्वारेण ङीप्रत्ययाभावार्थमादौ द्रष्टव्य:, तेन पूर्वा च साऽपहाना चेति प्राबन्तेन वाक्यं कार्यम्, क्रियाशब्दत्वाच्च "पूर्वपदस्था०" [ २.३.६४ ] इति णत्वाभावः । संप्रहीयते परेण प्रहीयते भुजिपत्यादिनाऽनट् स्वराण्णत्वम् । क्रुञ्चा, उष्णिहा, देवविशेत्यादि - अत्र त्रयोऽपि 20 क्विबन्ताः, छान्दसा एते इति पूर्वे इति न मतव्यक्त निबन्धः कृतः । नामग्रहणे न तदन्तस्य इति न्यायादजाद्यन्तादापः प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याहएव चेति ।। २. ४. १६ ।।
ऋचि पादः पात्-पदे ॥ २. ४. १७ ॥
पादिति कृतपाद्भावः पादशब्दो गृह्यते, तस्याबन्तस्य ऋच्यभिधेयायां 25 पात् पदेति निपात्यते । त्रिपात् चतुष्पात् ऋक्, त्रिपदा गायत्री, चतुष्पदा पङ्क्तिः । ऋचीति किम् ? द्विपाद्, द्विपदी; चतुष्पाद्, चतुष्पदी ।। १७ ।।
न्या० स० -- ऋचि पादः० । ननु " ऋचि पादो वा" इति क्रियताम्, ऋचि अभिधेयायां वाप् भवतीति सूत्रार्थः, न विकल्पपक्षे ऋच्यभिधेयायामपि " वा पादः "