________________
बृहद्वृत्ति- लघुन्याससंवलिते
ताभ्यां वाssप् डित् ॥ २. ४. १५ ॥
मन्नन्तान्नाम्नोऽन्नन्ताच्च बहुव्रीहेः स्त्रियामाप् प्रत्ययो वा भवति, स च डित् ; पक्षे यथाप्राप्तम् । सीमे, सीमा:; सुपर्वे, सुपर्वाः; पक्षे पूर्वाभ्यां प्रतिषेधाद् ङीर्न भवति - सीमानौ, सीमानः; सुपर्वाणी, सुपर्वाणः । उपान्त्यलोपिनस्तु बहुव्रीहेर्डीरपि भवति- बहुराजे, बहुराजाः ; बहुराजानौ, बहुराजानः; 5 बहुराज्ञ्यौ, बहुराज्ञ्यः । उद्दामाम्, उद्दामानम्, उद्दाम्नीं वडवां पश्य । “दातुं प्रदानोचित - भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ।" [ किराता० स० ३.] । एवमुपान्त्यलोपिनोऽन्नन्तस्य बहुव्रीहेः स्त्रियां ङीडाट्विकल्पाभ्यां त्रैरूप्यम् । उपान्त्यवतस्तु डाप्रतिषेधाभ्यां द्वैरूप्यं भवति । डित्करणमन्त्यस्वरादिलोपार्थम् । डाप् इत्यकृत्वा डिद्विधानमुत्तरत्राप एवानु- 10 वृत्त्यर्थम् ।। १५ ।।
३६२ ]
[ पा० ४. सू० १५-१६.]
न्या० स० -- ताभ्यां वा । पूर्वाभ्यामिति - " मनः” [ २. ४. १४ . ] " नोपान्त्यवतः " [ २. ४. १३. ] इत्येताभ्याम् ।
" महत्त्व योगाय महामहिम्नामाराधनीं तां नृपदेवतानाम् । दा प्रदानोचितभूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ।। "
त्रैरूप्यमिति - " वा बहुव्रीहेः " [ २.४. ५. ] इति वचनात् वन्नन्तस्यापि त्रैरूप्यं, न सुधीवे, सुधीवान सुधीवयौं ।। २. ४. १५ ।।
15
अजादेः ।। २. ४. १६ ॥
अजादिभ्य प्रवृत्त्याऽजादीनामेव स्त्रियां वर्तमानेभ्य प्राप् प्रत्ययो भवति, बाधकबाधनार्थमनकारार्थं च वचनम् । प्रजा, एडका, अश्वा, चटका, मूषिका, 20 कोकिला ; एभ्यो जातिलक्षणस्य ङीप्रत्ययस्यापवाद प्राप्; बाला, होडा, पाका, वत्सा, मन्दा, विलाता, कन्या, मध्या, मुग्धा; विलातेत्यन्ये न पठन्ति तेनविलातीत्यपि, एभ्यो वयोलक्षणस्य; ज्येष्ठा, कनिष्ठा, मध्यमा; एभ्यो धवयोगलक्षणस्य च; पूर्वापहारणा, अपरापहारणा, निपातनाद् णत्वम्, संप्रहाणा, परप्रहाणेत्यप्यन्ये, एषु टिल्लक्षणस्य; त्रीणि फलानि समाहृतानि 25 त्रिफला, अत्र द्विगुलक्षणस्य | क्रुञ्चा, देवविशा, उष्णिहा; एषु व्यञ्जनान्त