________________
३६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६-१२.]
समानार्थत्वादेकयोग एव क्रियताम् ? उच्यते-बहुव्रीहावप्यून इति तदन्तस्य विधिः, । अशिशोरिति च स्वरूपस्येति योगविभागः ॥ २. ४. ८ ॥
संख्यादेर्हायनाद् वयसि ॥ २. ४. ६ ॥
संख्यादेयिनशब्दान्तानाम्नो बहुव्रीहेः स्त्रियां वयसि गम्यमाने ङीर्भवति। द्विहायनी, त्रिहायणी, चतुर्हायणी; अत्र “चतुस्त्रेयिनस्य वयसि" 5 [ २. ३. ७४. ] इति णत्वम् । संख्यादेरिति किम् ? अतीतहायना । हायनादिति किम् ? द्विवर्षा कन्या । वयसीति किम् ? द्विहायना, त्रिहायना, चतुर्हायना शाला, कालकृता प्राणिनां शरीरावस्था वय इति णत्वमपि न भवति । बहुव्रीहेरित्येव-शते हायनेषु संभूता जाता भवा वेति इकणि तल्लुपि च-शतहायना स्त्री ।। ६ ।।
10 न्या० स०--सङ्ख्यादे०। इकरिण तल्लुपि चेति-"वर्षाकालेभ्यः" [६. ३. ८०.] इत्यस्य, शकटाभिप्रायेणेदमुक्तम् । तन्त्रोद्योतस्तु शतहायनशब्दस्य कालवाचकत्वाभावे "तत्र कृत०" [ ६. ३. ६४. ] इत्यनेनाणेवेतोच्छति ।। २. ४. ६ ।।
दाम्नः ॥ २. ४. १० ॥
संख्यादेमिन्शब्दान्तानाम्नो बहुव्रीहेः स्त्रियां ङीर्भवति । द्विदाम्नी,15 त्रिदाम्नी । संख्यादेरित्येव-उद्दामानम्, उद्दामाम्, उद्दाम्नी वडवां पश्य, “अनो वा' [२. ४. ११.] इति विकल्पस्यापवादो योगः ।। १० ।।
अनो वा ॥ २. ४. ११ ॥
अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीर्वा भवति । उत्तरत्रोपान्त्यवतः प्रतिषेधादुपान्त्यलोपिन एवायं विधिः । बहुराश्यौ, बहुराजे, बहुराजानौ; दीर्घाणि20 अहानि यस्यां दीर्घाह नी, दीर्घाहा, दीर्घाहाः शरत्; बहुतक्ष्ण्यौ, बहुतक्षे, बहुतक्षाणौ । बहुव्रीहेरित्येव-अतिराज्ञी, निस्तक्ष्णी ।। ११ ।।
नाम्नि ॥२. ४. १२ ॥ अन्नन्ताद् बहुव्रीहेः स्त्रियां-नाम्नि संज्ञायां नित्यं ङीर्भवति । अधिराज्ञी,