________________
[पा० ४. सू० ७-८.
श्री सिद्ध हेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५६
न्या० स० –– वा पादः । इह न भवतीति - अथ " पदिच् गतौ” इत्यतो ण्यन्तात् क्विपि कृते यत् पादिति रूपं तदिह कस्मान्न विज्ञायते ? उच्यते -पादयतेः क्विबन्तस्य प्रयोगादर्शन मिति प्रयोगेऽपि वा क्रियाकारकसम्बन्धमात्रं पादः क्विबन्तात् प्रतीयते न तु विशिष्टार्थप्रतीतिः, द्विपाच्छन्दश्व विशिष्टार्थावयव इति ।। २. ४. ६ ।।
ऊध्नः ।। २.४.७ ।।
ऊधन्निति कृतनकारादेशस्योधसो ग्रहणम्, तदन्तान्नाम्नो बहुव्रीहेः स्त्रियां ङीर्भवति । कुण्डोध्नी, घटोध्नी, महोध्नी; पीवरोध्नी । "अनो वा " [२. ४. ११.] इति विकल्पे प्राप्ते वचनम् । समासान्तविधौ ' ऊध्न्' इत्यादेशे नान्तत्वादेव ङीः सिध्यति, किन्तु पञ्चभिः कुण्डोध्नीभिः क्रीत इतीकरण तल्लुपिच 'पञ्चकुण्डोध्न्' इति प्रकृतेः सौ पञ्चकुण्डोदिति स्यात् पञ्च - 10 कुण्डोधेति चेष्यते ।। ७ ।।
5
"
न्या० स०—ऊध्नः । ऊध्न् इत्यादेश इति प्रयमर्थः - यदि समासान्तविधौ ऊनत्यादेशं न कुर्यात् किन्तु न इत्येव ततः " अनो वा" [ २. ४. ११. ] इत्यनेन विकल्पः स्यात्, न तु “स्त्रियां नृत० " [ २.४. १. ] इत्यनेन नित्यं ङीरिति । पञ्चकुण्डोधेतिननु लुपः पित्त्वात् "क्यङ मानि० " [ ३.२.५०. ] इत्यनेन पुंवद्भावः कथं न भवति ? 15 उच्यते—“कौण्डिन्यागस्त्ययोः ० [ ६.१.१२७. ] इत्यत्र कौण्डिन्यनिर्देशान्न भवति ; यद्वा "स्त्रियामूधसो न्” [ ७. ३. १६६. ] इत्यत्र स्त्रियां विषये व्याख्यानात्, विषयव्याख्यानं हि निर्निमित्तत्वार्थम्, ततो यदि पुंवद्भावोऽभिप्रेतः स्यात् तदा ङयामूधसोऽनिति सनिमित्तकमेव कुर्यात् ; ननु ङयामिति कृते ङीरपि कथम् ? उच्यते - तदा गौरादौ पठयेत ऊधस्शब्दः ; यद्वा उधस इति सूत्रं क्रियेत । ननु ङयामिति कृते ङीरपि कथं ? निमित्तक - 20 व्याख्यानमेव क्रियतां, तस्मिन्नपि न किञ्चिद् विनङ्क्ष्यति, निमित्तव्याख्याने हि " मूल्यैः क्रीते” [ ६. ४. १५०. ] इकरिण तल्लुपि “ङयादे: ०” [ २. ४. ε५. ] इति ङीनिवृत्ती तन्निमित्तकसमासान्तस्यापि निवृत्तिः प्राप्नोति, ततश्च पञ्चकुण्डोधा इति विसर्गान्तं रूपं प्राप्नुयादिति समासान्तविधौ सनिमित्तक प्रदेशो नाकारि ।। २. ४. ७ ।।
"
अशिशोः ।। २. ४. ८ ।।
प्रशिशु इत्येतस्माद् बहुव्रीहेः स्त्रियां ङीर्भवति । श्रविद्यमानः शिशुरस्या शिश्वी । बहुव्रीहेरित्येव-न शिशुः - प्रशिशुः ।। ८ ।।
न्या० स० -- अशिशोः । ननु ऊधन् शब्दस्याशिशुशब्दस्य च बहुव्रीहिविशेषणत्वेन
25