________________
३५८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ५-६.]
मङ्घर्नलोपेऽवागमे च-मघोनी। नान्तत्वादेव ङीः सिद्धस्तन्नियमार्थं रविधानार्थं च वचनम् ।। ४ ।।
न्या० स०--स्वराधो० । वनतेः क्विबन्तस्य "अहन्पञ्चमस्य०" [४. १. १०७.] इति दीर्घ वे वन्निति रूपाभावाद् , विजन्तस्य च प्रयोगादर्शनात् प्रत्ययस्यैव ग्रहणमित्याहवन इति वन्-क्वनिपित्यादि-ननु निरनुबन्धग्रहणे न सानुबन्धकस्य इति क्वनिप्- 5 ङवनिपोर्ग्रहणं न प्राप्नोति, उच्यते-कनिरनुबन्धग्रहणे क्वचित् सानुबन्धस्य ग्रहणम् इति न्यायान्न दोषः। वनोऽन्तस्येति-ननु "प्रत्ययस्य" [७. ४. १०८.] इति सर्वस्यापि प्राप्नोति तत् कथमुक्तमन्तस्येति ? सत्यम्-वात् न् वन् इति कृते भविष्यति । अतिशुनी पूजितः श्वाऽतिश्वा, स्त्री चेदतिशुनी, यद्वा अतिक्रान्तः श्वा ययेति बहुव्रीहिः, श्वानमतिक्रान्तेति कृते “गोष्ठातेः शुनः" [ ७. ३. ११०.] इति समासान्तः स्यात् । मघोनीति-10 मघोनो भार्याभेदोपचारेण मघोनी। नियमार्थमिति-णस्वराघोषादेव वनो ङीर्भवति, तेन सहयुद्ध्वेत्यादौ पूर्वेणापि न भवति । विपरीतनियमस्तु "स्त्रियां नृतः" [२. ४. १.] इत्यस्यारम्भान्न, विपरीतनियमे हि राज्ञीत्यादौ स्वरात् परस्य नकारस्यावस्थानात् "स्त्रियां नृतः०" [ २. ४. १. ] इत्यनेन ङीन स्यात् ।। २. ४. ४ ।।
वा बहुव्रीहेः ॥ २. ४. ५॥
15 स्वराघोषात् परो यो विहितो वन् प्रत्ययस्तदन्ताद् बहुव्रीहेः स्त्रियां ङीप्रत्ययो वा भवति, रश्चान्तादेशः । प्रियावावरी, प्रियावावा स्त्री; बहुधीवरी, बहुधीवा; बहुमेरुदृश्वरी, बहुमेरुदृश्वा स्त्री। स्वराघोषादित्येव-प्रिययज्वा स्त्री ।। ५॥
न्या० स०-वा बहु०। बहुमेरुदृश्वरीति-अन्ये चन्द्रगोम्यादयो “नोपान्त्यवतः"20 [२. ४. १३.] इति प्रतिषेधमिच्छन्तो बहुमेरुदृश्वेत्येव कथयन्ति । स्वमते तु व्यक्त्या सूत्रस्य प्रवर्तनान्न निषेधः ।। २. ४. ५ ।।
वा पादः ॥ २. ४. ६ ॥
बहुव्रीहेस्तन्निमित्तकपाच्छब्दान्तात् स्त्रियां डीर्वा भवति । द्विपदी, द्विपात् ; त्रिपदी, त्रिपात्; बहुव्रीहिनिमित्तो यः पादिति बहुव्रीहिणा पाच्छब्दस्य25 विशेषणत्वादिह न भवति-पादमाचष्टे पाद्, त्रयः पादोऽस्या:-त्रिपात् स्त्री ॥६॥