________________
[पा० ४. सू० ३-४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३५७
समासनाम। अधात्विति किम् ? सुकन्, सुकंसौ; सुहिन्, सुहिंसौस्त्रियौ ।। २ ।।
न्या० स०--अधातू । अधात्विति पर्युदासाश्रयणात् तस्य च विधिप्रधानत्वात् प्रतिषेधस्यानुमितत्वेन गौणत्वाद् गोमन्तमिच्छतीति स्त्री गोमत्यतीति विधिनिषेधप्राप्तौ अधातुत्वाश्रितो विधिरेव, न तु धातुत्वाश्रितः प्रतिषेधः । गोमदादिशब्दोऽ- 5 प्युदिदिति-अवयधर्मण समुदायोऽपि व्यपदिश्यते, अत्रावयव उदित् तद्धर्मेण समुदायोऽपीत्यर्थः । सुकन्नित्यादि-"न्स्महतो०" [ १. ४. ८६. ] इत्यत्र महत्साहचर्यात् क्विबन्तस्य कंसो न ग्रहणमित्यर्थस्य ज्ञापितत्वादत्र न दीर्घः । प्रत्ययस्यो दित्त्वादिति-"अजादेः" [२. ४. १६. ] इत्यत्र वृत्तिव्याख्यानेन तदन्तस्य ग्रहणे सिद्धे यदिदं व्याख्यानं तद युक्त्यन्तरस्यापि दर्शनार्थम्, यत एकस्यापि साध्यस्य सिद्धयर्थं बह्वयोऽपि युक्तय10 उपन्यस्यन्ते ॥ २. ४. २ ॥
अञ्चः ॥ २. ४. ३ ॥
अञ्चन्तानाम्न: स्त्रियां ङीर्भवति । प्राची, प्रतीची, अपाची, उदीची ।। ३ ।।
न्या० स०-अञ्चः। अञ्च इति कृतनलोपाभावस्य धातुरूपस्याञ्च निर्देशः,15 तेनार्चाविवक्षणे नलोपाभावे तदविवक्षणे लोपे ङीः सिद्धः । “अचः" इति निर्देशे तु "अच्च् प्राग्दीर्घश्च" [२. १. १०४.] इतिवत् कृतनलोस्यैव स्यात् । इत्थं च प्राञ्ची प्रत्यञ्चीत्यादौ डी गच्छेत् ।। २. ४. ३ ।।
ण-स्वरा-घोषाद् वनो रश्च ॥ २. ४. ४ ॥
वन इति वन्-क्वनिप्-वनिपामविशेषेण ग्रहणम्, णकारान्तात्20 स्वरान्तादघोषान्ताच्च यो विहितो वन् प्रत्ययस्तदन्तानाम्नः स्त्रियां डीभवति, वनोऽन्तस्य च तत्संनियोगे रो भवति । ण-'प्रोण'-अवावरी । स्वर-'धा'धीवरी, अतिधीवरी; 'पा'-पीवरी, 'कृ'-सहकृत्वरी, राजकृत्वरी; सुत्वरी । अघोष-'दृश्'-मेरुदृश्वरी । णस्वराघोषादिति किम् ? 'युध्'-सहयुध्वा, 'यज्'यज्वा स्त्री । विहितविशेषणं किम् ? शृणातीति शर्वरी, स्वराद् विहितत्वाद्25 गुणे कृते घोषवतो यथा स्यात् । वन इति किम् ? श्वयते: "श्वन्मातरिश्वन्" [उणा० ६ ०२.] इत्यादिनाऽनि प्रत्ययेऽन्तलोपे च सति-शुनी, अतिशुनी;