________________
[ पा० ३. सू० ६७-६८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५१
यद्येवं तर्हि क्षुनीत इत्यादौ गत्वशास्त्रस्य परेऽसत्त्वादीकारादौ कृते क्षुम्नेति रूपाभावान्न प्राप्नोति, उच्यते - स्वरादेशस्य स्थानिवद्भावादेकदेशविकृतस्यानन्यत्वाद् वा भविष्यतीत्यदोषः । बहुवचनेन चास्याकृतिगरणता द्योत्यते, तेनान्योऽप्यविहितलक्षणो णत्वप्रतिषेधः क्षुम्नादिषु द्रष्टव्य:, तेन धनदवाचकनरवाहनशब्दस्य न णत्वम् । नूनमेत्येक इतिअविभक्तिको निर्देश:, अकारान्तस्त्वयं ज्ञातव्यः ।। २. ३. ६६ ।।
5
पाठे धात्वादेर्णो नः ।। २. ३. ६७ ।।
पाठविषये धात्वादेर्णकारस्य नकार आदेशो भवति । णीग् - नयति, णम् - नमति, णह - नह्यति । पाठ इति किम् ?, णकारीयति । धात्विति किम् ? णकारः । प्रादेरिति किम् ? भणति । सर्वे च नादयो गोपदेशा:नृति, नन्दि, नर्दि, नशि, नाटि, नक्कि, नाधू, नाथू, नृ वर्जम् । नाटीति " नटण 10 अवस्यन्दने” इत्यस्य वर्जनम्, भौवादिकस्य तु "णट नृत्तौ " इत्यस्य - प्रणति, प्रणाटयति। णोपदेशश्च षां "णहिनुमीनानेः" इत्यस्य विषयव्यवस्थार्थः ।। ६७ ।।
""
न्या० स०-- पाठे धा० । नन्वादिग्रहणं किमर्थं ? तमन्तरेणापि गोपदेशबलान्नत्वं न भविष्यति, अन्यथा भनित्येव पठयेत, नैवम् - गोपदेशस्य " अदुरुपसर्ग ० ' [ २. ३. ७७. ] इति णत्वे फलमस्ति, तथाहि - उपसर्गपूर्वस्य प्रभणति, अन्यत्र तु भनतीति 15 स्यादित्यादिग्रहणं कर्त्तव्यमेव । पाठ इति किमिति - पाठ इत्यनेन धातूपदेशस्य ग्रहणाकारीयतेरनुपदेशान्नत्वाभावः । अथैते नादय एव पठ्यन्तां, तथा च सति नेदमारब्धव्यं भवतीत्याह-गोपदेशश्चेति, एवमुत्तरत्र षोपदेशेऽपि ।। २. ३. ९७ ।।
षः सोऽष्टयै - ष्टिव- ष्वष्कः ।। २. ३. ६८ ॥
पाठे धात्वादेः षकारस्य सकार प्रादेशो भवति, न चेत् षकारः ष्ट्यं -20 ष्टिव-ष्वष्कसंबन्धी भवति । षहि-सहते । षिच्- सिञ्चति । पाठ इत्येवषण्ढीयति । धात्वित्येव - षण्ढः । प्रादेरित्येव - लषति । ष्ट्यादिवर्जनं किम् ? ष्ट्यायति, ष्टीवति, ष्टीव्यति, ष्वष्कते । स्वर - दन्त्यपरसकारादयः स्मि-स्विदिस्वदि-स्वञ्जि-स्वपयश्च षोपदेशा, सृपि, सृजि, स्त्या, स्तृ, स्तृ, सृ, सेकृवर्जम् । षोपदेशषां षत्वविषयव्यवस्थार्थः ।। ६८ ।।
25
न्या० स० -- षः सोऽष्टयं ० । न च वाच्यमत्राप्यादेरित्यधिकाराभावेऽपि पाठबलादेव लषतीत्यादौ सत्वं न भविष्यति, अन्यथा लस् इति कुर्यात्, यतः षकरणस्यान्यदपि