________________
३५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ६५-६६.]
प्रघ्नन्ति, प्राघ्नन्, प्राघानि, प्रघानिष्यते इत्यादिषु तु "हनः" [२. ३. ८२.] इति प्राप्ते प्रतिषेधः । हन इति किम् ? अर्पण, परिघेण। घीति किम् ? वृत्रहणौ, प्रहणनम् ।। ६४ ॥
नुतेर्यहि ॥ २. ३. ६५ ॥
नृतेर्धातोर्नकारस्य यविषये णो न भवति । नरीनृत्यते, नरिनति, 5 नर्नति, नरीनृतीति; अत्र “रषवर्णात्०" [२. ३. ६३.] इत्यादिना प्राप्तिः । यडीति किम् ? हरिरिव नृत्यतीति हरिणी नाम कश्चित्, “पूर्वपदस्थान्नाम्न्यगः" [२. ३. ६४.] इति णत्वम् ।। ६५ ।।
न्या० स०-नृतेर्यङि । हरिणौत्यत्र “कर्तुणिन्” [५.१.१५३.] ॥ २.३.६५।। क्ष भनादीनाम् ॥ २. ३. ६६ ॥
10 क्षुभ्ना इत्येवमादीनां नकारस्य णो न भवति । क्षुम्नाति, क्ष नीतः, क्षुभ्नन्ति, क्षुभ्नन्, क्षुभ्नानः; तृप्नोति, तृप्नुतः, तृप्नुवन्ति, तृप्नुवन्, तृप्नुवानः; आचार्यस्य भार्या-प्राचार्यानी, प्राचार्यस्य भोग प्राचार्यभोगस्तस्मै हित प्राचार्यभोगीनः; एषु "रघुवर्णात्" [२. ३. ६३.] इत्यादिना प्राप्ते, सर्वनाम, नृनमनः, परिनृत्तम्, गुरुनृत्तम्, परिनर्तनम्, ग्रामनट:, शरनदः, शरनदी, गिरि-15 नगरम्, परिनिवेशः, श्रीनिवासः, शबराग्निः, दर्भानूपः, हरिनन्दी, हरिनन्दनः, गिरिगहनम्; एषु “पूर्वपदस्थात्" [२. ३. ६४.] इत्यादिना प्राप्ते, परिनदनम्-अत्र “अदुरुपसर्गान्तरो०" [२. ३. ७७.] इत्यादिना प्राप्ते; सुप्रख्येन, अत्र “कवर्गकस्वरवति" [२. ३. ७६.] इति प्राप्त प्रतिषेधः । क्षुभ्ना, तृप्नु, प्राचार्यानी, प्राचार्यभोगीन, सर्वनामन्, नृनमन, नृनमेत्येके ; 20 नृत्त, नर्तन, नट, नद, नड इत्येके; नदी, नगर, निवेश, निवास, अग्नि, अनूप, नन्दिन्, नन्दन, गहन, नदन; ख्याग् इति क्षुम्नादिः । बहुवचनमाकृतिगणार्थम् ।। ६६ ॥
न्या० स०-क्षुम्नादीनाम्। क्षुम्नेति लुप्ततिनिर्देशेन धातुग्रहणं, . न तु यङ लुप्निवृत्त्यर्थम्, अनुबन्धनिर्देशे हि क्षोभणमित्यत्रापि स्यात्, एवं तृप्नु इत्यत्रापि 125