________________
[पा० ३. सू० ८६-६०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३४७
निविण्णः ॥ २. ३. ८६ ॥
निपूर्वाद् विदेः सत्ता-लाभ-विचारार्थात् परस्य क्तनकारस्य णत्वं निपात्यते । निविण्णः प्रावाजीत् । कश्चित् तु वेत्तेरपीच्छति-निविण्णवानिति च ।। ८६ ।।
न्या० स०--निविण्णः। सत्तेत्यादि-एते त्रयोऽपि धातूनामनेकार्थत्वाद् वैराग्ये 5 वर्तन्ते । निविण्ण इति-"विदक् ज्ञाने" इत्यस्य सेट्त्वान्न । गतिकारक०* इति न्यायात् "रषवर्ण०" [२. ३. ६३.] इति सिद्धमेव, किमनेन ? सत्यम्-अलचटेति व्यावृत्त्याप्राप्तौ क्तनकारस्य णत्वं निपात्यते, धातुनकारस्य तु “तवर्गस्य०" [१. ३. ६०.] इति, “रवर्णा०" [ २. ३. ६३. ] इत्यनेन वा सिद्धमेव ।। २. ३. ८६ ॥
न ख्या-पूग-भू-भा-कम-गम-प्याय-वेपो णेश्च 10
॥२. ३. ६० ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परे ये ख्यादयोऽण्यन्ता ण्यन्ताश्च धातवस्तेभ्यः परस्य कृद्विषयस्य नकारस्य णो न भवति । · प्रख्यानम्, प्रख्यायमानम्, प्रख्यायिनौ, अप्रख्यानिः, प्रख्यानीयम् पूग्-प्रपवनम्, प्रपूयमानम्, प्रपाविनौ, अप्रपवनिः, प्रपवनीयम् ; भू-प्रभवनम्, प्रभूयमानम्, प्रभाविनौ,15 अप्रभवनिः, प्रभवनीयम् ; भा-प्रभानम्, प्रभायमानम्, प्रभायिनौ, अप्रभानिः, प्रभानीयम्; कम्-प्रकमनम्, प्रकम्यमानम्, प्रकामिनौ, अप्रकमनिः, प्रकमनीयम् गम्-प्रगमनम्, प्रगम्यमानम्, प्रगामिनौ, अप्रगमनिः, प्रगमनीयम्; प्यायप्रप्यानः, प्रप्यानवान्, प्रप्यायनम्, प्रप्यायमानम्, प्रप्यायिनौ, अप्रप्यायनिः, प्रप्यायनीयम्; वेप-प्रवेपनम्, प्रवेपमानम्, प्रवेपिनौ, अप्रवेपनिः, प्रवेपनीयम् 20 ण्यन्तेभ्योऽपि-प्रख्यापनम्, प्रपावनम्, प्रभावना, प्रभापनम्, प्रभापना, प्रकामना, प्रगमना, प्रप्यायना, प्रवेपनम् ; अण्यन्तेभ्यो नित्यं वेपो ण्यन्तेभ्यश्च विकल्पेन प्राप्ते प्रतिषेधः । पूगो गकारः किम् ? पवतेनिवृत्त्यर्थः, तेन प्रपवणम्, प्रपूयमाणम्, इत्यादि । ख्यातेर्णत्वमिति कश्चित्-प्रख्याणम्, प्रख्याय। माणम् ।। ६० ।।
25 न्या० स०--न ख्या-पूग्। ख्या इति निरनुबन्धोपादानं ख्यादेशस्य "ख्यांक