________________
३४८ ]
बृहद्दवृत्तिलघुन्याससंवलिते
[पा० ३. सू० ६१-६२.]
प्रकथने" इत्यस्य च परिग्रहार्थम् । नित्यमिति - "स्वरात्" [ २. ३. ८५. ] इत्यनेन । वेपो विकल्पेनेति - "व्यञ्जनादेर्नाम्युपा०" [ २. ३. ८७ ] “णेर्वा" [ २. ३. ८७ ] इत्यनेन ।। २. ३. ६० ।।
इत्यनेन ।
ण्यन्तेभ्यश्चेति
देशेऽन्तरोऽयन- हनः ।। २. ३. ६१ ।।
अन्तःशब्दात् परस्यायनशब्दस्य हन्तेश्व संबन्धिनो नकारस्य देशेऽभिधेये 5 णो न भवति । अन्तरय्यतेऽस्मिन्निति - श्रन्तरयनो देशः, एवमन्तर्हननो देशः । देश इति किम् ? अन्तरयणं वर्तते, अन्तर्हणनम्, अन्तर्हण्यते । अन्तर्घणो देश इति तु निपातनात् । अन्तर इति किम् ? प्रायणी देशः, प्रहरणनो देशः । अयन - हन इति किम् ? अन्तर्णमनो देश: ।।
६१ ॥
न्या० स० -- वेशेऽन्तरो० । " स्वरात्" [ २. ३.८५ ] इति “हनः" [२.३.८२.]10 इति च यथासंख्यं प्राप्ते प्रतिषेधः । अन्तर्घण इति - " हनोऽन्तर्घनान्त ०" [ ५. ३. ३४. ] इत्यलन्तो निपात्यते, वाहीकेषु देशविशेषस्येयं संज्ञा । प्रायगो देश इति - इंदु, इण्क् वा, प्रेयतेऽस्मिन्निति अनटि "स्वरात्" [ २. ३.८५ ] इति णत्वे, अयती स्यायो” [२. ३. १००. ] इति लत्वं स्यात् ।। २. ३. ६१ ।।
तु "उपसर्ग
षात् पदे ॥ २. ३. ६२ ॥
पदे परतो यः षकारस्तस्मान्निमित्तात् परस्य नकारस्य णो न भवति । सर्पिष्पानम्, यजुष्पानम्, दुष्पानम्; अत्र “पानस्य भाव - करणे" [ २. ३. ६६.] इति, निष्पानमिति "स्वरात्" [२. ३. ८५.] इति, निष्पायनमिति "र्वा" [२. ३. ८८ . ] इति प्राप्ते प्रतिषेधः । षादिति किम् ? निर्णयः, निर्यारणम् । पद इति किम् ? पुष्णाति सर्पिष्केण ।। ६२ ।।
20
15
न्या० स० -- षात् पदे । सर्पिष्पानमिति - नन्वत्र षकाराश्रितं मा भूण्णत्वं, सर्पिस्थपाश्रितं कथं नहि ? उच्यते यत्रोत्पद्यमानस्य रणत्वस्य निमित्तद्वयं भवति तत्र प्रत्यासत्त्याऽनन्तरमेव गृह्यते इति । सर्पिष्केणेति - सर्पिः कायतीति सर्पिस् अम् काधातुः अग्रे इति स्थिते क इत्यस्याविभक्त्यन्तत्वात् पदत्वाभाव इति नानेन त्वप्रतिषेधः । ननूत्तरपदमपि पदमुच्यते यथा "वेदूतोऽनव्यय ०" [२. ४. ६८. ] इत्यत्र पदे इत्युक्तेऽपि 25 उत्तरपदे इति वृत्तिकृता व्याख्यानात्, तद्वदिहापि पदे इत्युक्तोऽपि उत्तरपदमपि लप्स्यते, तत् कथं सर्पिष्केणेत्यत्र व्यावृत्तिः ? सत्यम् - नानिष्टार्था शास्त्रप्रवृत्तिः इति न्यायादेव -
T