________________
३४६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० ३. सू० ८७-८८.]
नागमस्य न णत्वं "म्नां०" [ १.३.३६. ] इति बहुवचनेन बाधितत्वात् । परत्वाद् विकल्प इति प्रेङ्खणमित्यादौ "नाम्यादे० ' [ २. ३. ८६. ] इत्यस्यावकाश:, प्रयापणेत्यादौ "णेर्वा” [ २. ३.८८ ] इत्यस्य प्रेङ्खणा, प्रेङ्खना' इत्यादौ तूभयप्राप्तौ परत्वाद् विकल्प एव, अत एव प्रमङ्गणमित्यादौ नियमाप्रवृत्तिः ।। २. ३. ८६ ।।
व्यञ्जनादेर्नाम्युपान्त्याद् वा ॥ २. ३. ८७ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषृवरर्णात् परो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरनकारस्य णो वा भवति । प्रमेहरणम्, प्रमेहनम् ; प्रकोपणम्, प्रकोपनम् ; प्रगुप्यमाणम्, प्रगुप्यमानम्; प्रकोपिणौ, प्रकोपनौ; प्रकोपरिणः, अप्रकोपनि प्रकोपणीयम्, प्रकोपनीयम् । व्यञ्जनादेरिति किम् ? प्रेहरणम्, प्रोहरणम् । नाम्युपान्त्यादिति किम् ? प्रवपणम्,10 प्रवहणम् । स्वरादित्येव - प्रभुग्नः परिभुग्नः । प्रदुरित्येव - दुर्मोहन, दुर्गृहनः । अलचटतवर्गशसान्तर इत्येव - प्रभेदनम् ; प्रभोजनम् । “स्वरात् " [२. ३. ८५.] इत्यनेन नित्यं प्राप्ते विभाषेयम् ।। ८७ ।।
5
J
न्या० स०-- व्यञ्जनादे० । दुर्मोहन इति-दुर्मुह्यतेऽनेनास्मिन् वा " करणाधारे” [ ५. ३. १२६. ] अनट्, दुर्मुह्यतीति नन्द्यादिभ्यो वा । दुर्गहन इत्यत्र “गोहः स्वरे”15 [ ४. २. ४२. ] ऊत् ।। २. ३. ८७ ।।
णेर्वा ॥ २.३.८८ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषृवर्णात् परस्य ण्यन्ताद् धातोर्विहितस्य स्वरादुत्तरस्य कृद्विषयस्य नकारस्य णो वा भवति । प्रमङ्गणा, प्रमङ्गना; प्रयापरणम्, प्रयापनम् प्रयापिणौ, प्रयापिनौ; अप्रयापरिणः, अप्रयापनि: ; 20 प्रयापरणीयम्, प्रयापनीयम् । विहितविशेषणं किम् ? प्रयाप्यमाणः, प्रयाप्यमान इति क्येन व्यवधानेऽपि यथा स्यात् । अलचटतवर्गशसान्तर इत्येव प्रदापनम्, प्रतियापनम् । अनाम्यादिभ्यो धातुभ्यो नागमे सति “नाम्यादेरेव ने ” [२. ३. ८६. ] इति नियमेनाऽप्राप्ते, शेषेभ्यस्तु "स्वरात्" [२. ३. ८५. ] इत्यनेन नित्यं प्राप्ते उभयत्र विभाषेयम् ॥ ८८ ॥
25
न्या० स० -- रणेर्वा । शेषेभ्यस्त्विति - नागमरहितेभ्यः ।। २३.८८ ॥