________________
[पा० ३. सू०७३-७५.] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३३७
अतोऽह्नस्य ॥ २. ३. ७३ ।।
रेफादिमतोऽकारान्तात् पूर्वपदात् परस्याह्नशब्दसंबन्धिनो नकारस्य णो भवति । पूर्वाह्णः, अपराह्णः । श्रत इति किम् ? निरह्नः, दुरह्नः । अन इत्यकारान्तनिर्देशादिह न भवति - दीर्घाह नी शरत् ।। ७३ ।।
न्या० स० -- श्रतोऽह्नस्य० । दीर्घाहनी शरदिति - दीर्घाही दीर्घाहा : दीर्घाहा 5 रूपत्रितयम् ।। २. ३. ७३ ।।
चतुस्त्रेर्हायनस्य वयसि ॥ २. ३. ७४ ॥
'चतुर् त्रि' इत्येताभ्यां पूर्वपदाभ्यां परस्य हायनशब्दसंबन्धिनो नकारस्य वयसि गम्यमाने गो भवति । चतुर्हाणो वत्सः, चतुर्हायणी वडवा; त्रिहायणो वत्सः, त्रिहायणी वडवा वयसीति किम् ? चतुर्हायना, त्रिहायना 10 शाला, ङीरपि वयस्येव भवति । चतुस्त्रेरिति किम् ? सहस्रहायनः पुरुषः, लक्षहायनः पक्षी ।। ७४ ।।
।
वोत्तरपदान्तनस्यादेरयुव पक्वा - अह्नः ।। २. ३. ७५ ।।
"
पूर्वपदस्थाद् रषृवर्णात् परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा भवति, न चेत् स नकारो युवन् - पक्वा ऽहन्शब्दसंबन्धी 15 भवति । उत्तरपदान्त - व्रीहिवापिणौ, व्रीहिवापिनौ; माषवापिणौ, माषवापिनौ; व्रीहिवापिणी, व्रीहिवापिनी कुले; माषवापिणी, माषवापिनी कुले ; व्रीहिवापिणः, व्रीहिवापिनः ; माषवापिणः, माषवापिनः व्रीहिवापीणि, व्रीहिवापीनि कुलानि व्रीहिवापिरणा, व्रीहिवापिना । न-व्रीहिवापारिण, व्रीहिवापानि कुलानि माषवापारिण, माषवापानि कुलानि; " इव व्याप्तौ " 20 इत्यस्यानटि - प्रेण्वनं, प्रेन्वनं; “हिवु प्रीणने, पिवु सेचने" इत्यनयोः शतरि - प्रहिण्वन् प्रहिन्वन्; प्रपिण्वन् प्रपिन्वन्; हिवोरेव ह्यस्तन्यां - प्राहिण्वन् प्राहिन्वन्; बहुलवचनादनाम्नापि समासः, समासे हि पूर्वोत्तरपदव्यवहारः; • पुरुषश्च वारि चेति पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वाऽन्तरङ्गत्वादेकपदाश्रितं “रषृवर्णात् ०” [२. ३. ६३.] इत्यादिना नित्यमेव णत्वम् 125
;