________________
[पा० ३. सू० ६९-७०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३३५
[ २. ३. ६३. ] इति नित्यं प्राप्ते । शिक्षादित्वादिति-अन्यथा बहुस्वरत्वात् प्रायो बहुस्वरादिकण स्यात् ।। २. ३. ६८ ॥
पानस्य भाव-करणे ॥२. ३. ६६ ॥
पूर्वपदस्थेभ्यो रघुवर्णेभ्य परस्य भावे करणे च यः पानशब्दस्तत्संबन्धिनो नकारस्य णो वा भवति । क्षीरपाणं, क्षीरपानं वर्तते; कषायपाणं, कषायपानं 5 वर्तते; सौवीरपाणं, सौवीरपानं वर्तते। करणे-क्षीरपाणं, क्षीरपानं भाजनम् ; कषायपाणः, कषायपान: कंसः । भावकरण इति किम् ? पीयतेऽस्मिन्निति पानः, क्षीरपानो घोषः ।। ६६ ।।
न्या० स०-पानस्य०। सौवीरपारणमिति-सौवीरेषु प्रायो भवं बाहुलकादकत्रं बाधित्वा भवेऽरण, सुवीराणामिदं “तस्येदम्" [६. ३. १६०.] इति वा सौवीरं10 काञ्जिकम् ।। २. ३. ६६ ।।
देशे ॥ २. ३. ७० ॥
पूर्वपदस्थाद् रघुवर्णात् परस्य पानशब्दनकारस्य णो नित्यं भवति, देशे-समुदायेन चेद् देशो गम्यते; योगविभागाद् नवेति निवृत्तम् । पीयत इति पानम्, क्षीरं पानं येषां क्षीरपारणा उशीनराः, सुरापारणाः प्राच्याः, सौवीरपाणा15 वाहीकाः कषायपाणा गान्धारयः; तात्स्थ्यात् मनुष्याभिधानेऽपि देशो गम्यते । देशे इति किम् ? दाक्षीणां पानं दाक्षिपानम्, क्षीरपाना गोपालकाः ॥ ७० ॥
न्या० स०-देशे। योगविभागादिति-अन्यथा “पानस्य भावकरणदेशे” इति क्रियेत, तथाऽत्र कर्मसाधनपानशब्दो गृह्यते भावकरणप्रधानस्य तु पूर्वेण विकल्प एव ।20 उशीनरा इति-उश्यत इति “स्थादिभ्यः कः" [५. ३. ८२. ] वष्टीति क्विपि वा य्वृति गौरादिङयाम्-उशी नगरी, तस्या नराः; यद्वा वष्टे: “पदि-पठि." [ उणा० ६०७. ] इति इप्रत्यये बाहुलकात् कित्त्वे य्वृति-उशयः, तेषां नरः, बहुलवचनाद् दीर्घत्वे-उशीनरः, तस्यापत्यानि "राष्टक्षत्रियात" [६.१.११४.] इति विहितस्य "बहष्वस्त्रियाम्" [ ६. १. १२४. ] इति द्रेरञो लुप् । सौवीरेति-अजतेः "ऋज्यजि." [उणा० ३८८.]25 इति किति रे "अघक्य०" [४. ४. २.] इति वीभावे च-वीरः, वीरयतेऽचि-वीरः, शोभना वीरा यस्मात् तत् सुवीरं, तस्येदं तत आगतं वा। गान्धारयः गन्धारस्यापत्यं वृद्धम् “प्रत इञ्” [६. १. ३१.] गान्धारि:-राष्ट्रक्षत्रियसरूपः, ततो गान्धारीणां