________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ३. सू०६८. ]
अनिरिकादिभ्य इति किम् ?
ग्रामोऽपि शिरीषास्तेषां वनं शिरीषवनम् । इरिकावनम्, मिरिकावनम्, तिमिरवनम्, चीरिकावनम् कर्मारवनम्, इरिकादिराकृतिगणः ।
इरिकादिविशेषवर्जनाद्
क्षीरवनम् ; हरिवनम् । विशेषाणामेवेह विधिः, तेनेह न भवति - द्र मवनम्, वृक्षवनम् ।। ६७ ।।
३३४ ]
न्या० स०-- -द्वि- त्रिस्वरौ० । कोद्रववरणमिति - केन - अम्भसा उद्यन्ते "कैरव ० " 5 [ उरणा० ५१६. ] इति साधुः, केनो दुवन्त्युच्छब्दायन्तेऽचि वा । श्रोषध्यः फलपाकान्ता इति - उष्यतेऽनेनेति "व्यञ्जना घञ्” [ ५. ३. १३२. ] इति घत्रि - प्रोषः, प्रोषो धीयते - ऽस्यामिति - प्रोषधिः ' व्याप्यादाधारे" [ [ ५. ३.८८ ] इति कौ " इतोऽक्त्यर्थात् [ २.४३२. ] इति ङयाम् - श्रोषध्यः, "उषेरधिः" [ उणा० ६७५. ] इति वा । फलस्य पाकेनान्तो विनाशः शोषो यासां ताः फलपाकान्ताः । लताः प्रतानवत्यो मालत्यादयः, 10 लता वल्ली कर्कोट्यादिका । गुल्माः ह्रस्वस्कन्धास्तरवो बहुकाण्डपत्राः केतक्यादयः । एतल्लतागुल्मरूपं द्वयं वीरुधः ; उत्पलस्त्वेवं व्याचष्टे - लता गुल्मास्तेभ्यो विलक्षणा वीरुधः । पुष्पं विना फलमेव यस्य स प्लक्षादिः फली । पुष्पं च फलं च उपगच्छन्तिपुष्पफलोपगाः "नाम्नो गमः ०' [ ५. १. १३१. ] इति डे वृक्षाः पुष्पपलोपगा इति । न चोभयमेव उपगच्छन्ति त एव वृक्षाः किं तर्हि ? येऽप्यन्यतरत् पुष्पं फलं वा उपगच्छन्ति 15 तेऽपि वृक्षा एव तत्र वेतसादयः पुष्पमेव, प्लक्षादयः फलमेव, प्राम्रादयस्तूभयमप्युपगच्छन्ति, तत्र वृक्षो वनस्पतित्वमवकोशित्वं च न व्यभिचरति । वनस्पतिरवकेशी तु वृक्षत्वं व्यभिचरतः, यतः फली वनस्पतिर्ज्ञेयः फलवन्ध्यस्त्ववकेशीति, अत एव च वनस्प त्यादिग्रहणमकृत्वा वृक्षग्रहरणं कृतं तदन्तर्गतत्वाद् वनस्पतित्यादेरिति । विदारी लताविशेष: ।। २. ३. ६७ ।।
20
गिरिनद्यादीनाम् ॥ २. ३. ६८ ।।
गिरिनदीत्यादीनां नकारस्य वा गो भवति । गिरिगदी, गिरिनदी; गिरिणख:, गिरिनखः; गिरिणद्ध:, गिरिनद्धः; गिरिरिणतम्बः, गिरिनितम्बः; वक्ररणदी, वक्रनदी; वक्ररिणतम्बा, वक्रनितम्बा; चक्ररिणतम्बा, चक्रनितम्बा; माषोणः, माषोनः; तूर्यमाणः, तूर्यमानः श्रर्गयरणः, श्रार्गयन: ; - ऋगयनं 25 वेत्त्यधीते वेत्यण, ऋगयनस्य व्याख्यानं तत्र भवो वा शिक्षादित्वादण् । बहुवचनाद् यथादर्शनमन्येऽपि भवन्ति ।। ६८ ॥
;
न्या० स० - गिरि न० । तूर्यमारण इति तुयं मानमस्येति वाक्ये निमित्त-निमित्तिनोरेकपदस्थत्वाभावादप्राप्ते विकल्पः, तूर्यतेस्त्वानशि श्ये मागमे च " रषुवर्णा ० '
"