________________
३३२ ]
बृहवृत्ति-लवुन्याससंवलिते
पा० ३. सू० ६५-६६.]
न्या० स०-पूर्वपदस्था०। सामादिति-अयमर्थ:-रूढेन पूर्वपदमाक्षिप्यते । तदन्तरेण तस्यासम्भवात्, तच्च नकारस्य विशेषणम् । पुष्पगन्दीति-"पुष्पच्” पुष्प्यन्तीति अचि-पुष्पाणि२ नन्दयति प्रण ङी:-पुष्पणन्दी आचार्यः, वत्स-ऋषभकार्पटैनिश्चिक्ये, दिगम्बरेण तु योपान्त्यः, स च न शिष्टसम्मतः । वार्धारणसः वधस्येयं "तस्येदम" [६.३.१६०.] अण डी: "तद्धितस्वरे." [ २.४. १२. ] इति पू
पूव-5 निषेधः । ऋगयनमिति-शिक्षादिषु ऋगयनपाठादेव गत्वनिषेधे सिद्धे किमग इत्यनेन ? सत्यम्-अबाधकान्यपि ज्ञापकानि भवन्ति । उत्तरपदसम्बन्धी नकारो न भवतीति"प्रत्ययः प्रकृत्यादेः" [ ७. ४. ११५] इति न्यायात् । पूर्वेरणव णत्वमिति-ननु पूर्वेणापि कथम् ? यत: खरपशब्दस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वमस्ति, तत्स्थत्वाद् रेफस्य चैकपदत्वाभावादिति, अत्रोच्यते-यत्र द्वावपि निमित्तनिमित्तिनावेकपदत्वं व्यभिचरतस्तत्र10 गत्वाभावः इह तु रेफस्य व्यभिचारेऽपि नकारस्य एकपदस्थत्वाव्यभिचारः, यद्वा सित्येवेति नियमेन आयनण्प्रत्यये खरपशब्दस्य पदत्वस्य निरस्तत्वात् पूर्वेणैव भवत्येव । मनोहरा वृक्षविशेषाः । प्रभङ्करेति-प्रभां करोति “सङ्ख्याहदिवा०" [ ५. १. १०२. ] इति टे "नवा खित्-कृदन्त०" [ ३. २. ११७. ] इति पृथग्योगाद्ध्वस्वत्वे मोऽन्तः। कोटरमिश्रकेत्यादि-कुटत् "ऋच्छि-चटि०" [ उणा० ३६७. ] इत्यरे बाहुलकाद् गुणे, मिश्रण 15 णके, सिध्यते: सेधतेर्वा "ऋज्यजि." [उणादि० ३८८. ] इति रे यावादित्वात् स्वाथिके कुत्सितादौ वा। पुरं गच्छतीति "नाम्नो गमः०" [५. १. १३१.] इति । शृणाते: "कृशकटि०" [उणादि० ६१६.] इति णिदि प्रत्यये-शारिः, स्वाथिके के शारि कायतीति वा ।। २. ३. ६४ ।।
20
नसस्य ॥२. ३. ६५ ॥
पूर्वपदस्थाद् रघुवर्णात् परस्य नसशब्दसंबन्धिनो नकारस्य णो भवति । प्रगता प्रवृद्धा वा नासिका यस्य स प्रणसः, एवं निर्णसः; प्रणसं मुखं, निर्णसं मुखम् ।। ६५ ।।
निष्पा-ग्रे-अन्तः-खदिर-कार्थ्या-मशरेक्ष-प्लक्ष
पीयुक्षाभ्यो वनस्य ॥ २. ३. ६६ ॥25 निरादिभ्यः परस्य वनशब्दनकारस्य णकार आदेशो भवति । बहुवचनं व्याप्त्यर्थम्, तेन संज्ञायामसंज्ञायां च भवति; अन्यथा हि "कोटरमिश्रकसिध्रक०" [३. २. ७६.] इत्यादिवक्ष्यमाणनियमबलेन संज्ञायां न स्यात् । निर्वणम्, प्रवरणम्, अग्रेवणम्, “पारेमध्येऽग्रेऽन्तः षष्ठ्या वा" [३.१.३०.] इत्य