________________
[पा० ३. सू० ६४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३३१
मेषनासिकः । अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन, अर्चनम्, मूर्छनम्, अर्जनम्, झर्भनम्, किरीटेन, कर्मठेन, मृडेन, दृढेन, कर्णेन, कीर्तनम्, तीर्थेन, नर्देन, क्रोधेन, रशना, रसना । अधिकारश्चायमा गत्वविधेः ।। ६३ ।।
न्या० स०-रषवर्णा० । ननु ऋवर्णग्रहणं किमर्थम् ? यत ऋवर्णादपि तन्मध्य- 5 व्यवस्थितरेफाश्रयं णत्वं भविष्यति, अत एव पाणिनिनापि रषाभ्यामित्येवोक्तम्, उच्यतेनहि वर्णकदेशा वर्णग्रहणेन गृह्यन्ते तद्भिन्नत्वाद् वर्णबुद्धेरनुपादानात्, तथाहि-मांसं न विक्रेयमिति सत्यपि निषेधे गावो विक्रियन्ते, तत्र मांसबुद्धेरभावात् । शेषवर्णव्यवधानेऽपोति-प्रसज्यप्रतिषेधादितरैर्व्यवधानेऽपि भवति । पुष्णातीति-अत्र "तवर्गस्य०" [१. ३. ६०.] इत्यनेनैव गत्वे सिद्धे षकारग्रहणं कषणमित्यादौ व्यवहितार्थ, तदर्थं च सत्10 परत्वात् “तवर्गस्य०" [ १. ३. ३०. ] इति बाधित्वा णत्वं प्रवर्तयति । नृभिर्ने भिरितिद्विष्प्रयोगो द्विर्वचनमित्याश्रयणाद् भिन्नपदत्वमित्यर्थः । विरलेनेति विपूर्वाद्रमे: "मुरल." [ उणा० ४७४. ] इति निपातनात् डित्यले। ऋषीरणामित्यादौ दीर्घरूपे स्यादिविधौ कर्तव्ये पूर्वकृतमपि णत्वमसिद्धं भवति ।। २. ३. ६३ ।।
पूर्वपदस्थानाम्न्यगः ॥ २. ३. ६४ ॥
पूर्वपदस्थाद् रघुवर्णादगकारान्तात् परस्य सामर्थ्यादुत्तरपदस्थस्य नकारस्य णकार आदेशो भवति, नाम्नि-संज्ञायां विषये । द्रुणसः, खुरणसः, खरणाः, खुरणाः, शूर्पणखा, चन्द्रणखा, वाीणसः, हरिवाहणः, नरवाहण:, पुष्पगन्दी, श्रीणन्दी स्त्री। नाम्नीति किम् ? मेषनासिकः, चर्मनासिकः । अग इति किम् ? ऋगयनम् । एकस्मिन्न व पदे इति पूर्वसूत्रे विज्ञानादुत्तर-20 पदस्थस्य समासे न प्राप्नोतीति वचनम् । खरपस्यापत्यं खारपायणः, मातृभोगाय हितो मातृभोगीणः । गर्गभगोऽस्या अस्तीति गर्गभगिणीत्यादौ तु उत्तरपदसंबन्धी नकारो न भवतीति एकपदत्वात् पूर्वेणैव णत्वं भवति, यदा तु गर्गाणां भगिनीति विग्रहस्तदैकपदत्वाभावाद् गर्गभगिनीत्येव भवति । कथं 'देवदारुवनम्, कुबेरवनम्, मनोहरवनम्, प्रभङ्करवनम्', इत्यादिसंज्ञायां गत्वं25 न भवति ? उच्यते-“कोटर-मिश्रक-सिध्रक-पुरग-सारिकस्य वणे"[३.२.७६.] इति णत्वनिपातनस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् संज्ञायां कोटिरादिभ्य एव वनशब्दस्य णत्वं भवति नान्येभ्य इति ।। ६४ ॥