________________
३३० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ६२-६३.]
जिगमिषतीत्यर्थः। गताविति किम् ? प्रतिषेधति, निषेधति-पापान्निवारयतीत्यर्थः ।। ६१ ।।
न्या० स०-गतौ से० । ननु कृसर-धूसर-केसरादिषु प्रत्ययसकारस्य षत्वप्रतिषेधो वक्तव्यः, नैवम्-उणादयोऽव्युत्पन्नानि नामानि इत्यबुधबोधनार्थं, व्युत्पाद्यमानान्यप्युणादयो व्युत्पत्तिकार्य न लभन्ते । इत्थं तहि वृक्ष इत्यत्रापि षत्वं न प्राप्नोति, उच्यते- 5 तहि बाहुलकात् षत्वाभावः ।। २. ३. ६१ ॥
सुगः स्य-सनि ॥ २. ३. ६२ ॥
सुनोतेः संबन्धिनः सकारस्य स्ये सनि च प्रत्यये परे षो न भवति । अभिसोष्यति परिसोष्यति, अभ्यसोष्यत्, पर्यसोष्यत् ; सनि-सुसूषतेः क्विपि-- सुसूः, सुसूषतीति तु नोदाह्रियते, णिस्तोरेव षणि इति नियमेनैव व्यावर्तितत्वात्,10 अभिसुसूषतीत्यपि नोदाह्रियते, अद्वित्वे इति व्यावृत्त्यैव निवर्तितत्वात् । स्यसनीति किम् ? सुषाव, अभिषणोति ।। ६२ ।।
न्या० स०-सुगः स्य० । सुसूरिति-वर्णविधौ स्थानित्वाभावात् षणीत्यभावः । अभ्यसोष्यदित्यत्राप्यट्यपीति वचनात् “उपसर्गात् सुग्०" [ २. ३. ३६.] इति प्राप्तं निषिध्यते ॥ २.३.६२॥
15
रघुवर्णानो ण एकपदेऽनन्त्यस्याउल-च-ट-तवर्ग-श
सान्तरे ॥ २. ३. ६३ ॥ रेफ-षकार-ऋवर्णेभ्यः परस्याऽनन्त्यस्य नकारस्य रघुवर्णरेवैकपदे वर्तमानस्य णो भवति, न चेनिमित्तनिमित्तिनोरन्तरे लकार-चवर्ग-टवर्ग-तवर्गशकार-सकारा भवन्ति; शेषवर्ण-व्यवधानेऽपीत्यर्थः । तीर्णम्, चतुर्णाम्,20 पुष्णाति, नृणाम्, न णाम् ; व्यवधानेऽपि भवति-करणम्, वृक्षाणाम्, करिणाम्, ऋषीणाम्, गुरुणा, गुरूणाम्, करेण, वृहणम्, अर्केण, मूर्खण, स्वर्गेण, अर्पण, दर्पण, रेफेण, दर्भेण, धर्मेण, आर्येण, सर्वेण ; अhण । रघुवर्णादिति किम् ? तेन । एकपद इति किम् ? अग्निर्नयति, नृभिर्नृभिः, नेतृभिर्नेतृभिः। पद इत्येतावतैवैकपदे लब्धे एकग्रहणं नियमार्थम्, एकमेव25 यन्नित्यं तत्र यथा स्यात् ; यदेकं चानेकं च तत्र मा भूत्-चर्मनासिकः,