________________
[पा० ३. सू० ५४-५६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३२७
न्या० स०--निर्नेःस्फु०। निस्फुरतीति-निसः सकारस्य रुत्वे "श-ष-से." [ १. ३. ६. ] इति तस्य सत्वमनेन धातुसकारस्य षत्वं “सस्य श-षौ" [ १. ३. ६१. ] इति षत्वम्, सत्वाभावपक्षे कदाचिद् विसर्गः कदाचित् "व्यत्यये लुग वा" [ १. ३. ५६. ] इति लोपः, मूर्धन्याभावपक्षे कदाचित् सकारद्वयश्रवणं कदाचिद् विसर्ग-लोपौ ।। २. ३. ५३ ॥
5
वेः॥२. ३. ५४ ॥
वेः परयोः स्फुरति-स्फुलत्योः सकारस्य षो वा भवति । विष्फुरति, विस्फुरति; विष्फुलति, विस्फुलति । योगविभाग उत्तरार्थः ।। ५४ ।।
न्या० स०--वेः। स्फुर-स्फुलो निनि-वेरित्येकयोगभावोऽत्र ॥ २. ३. ५४ ॥
स्कभ्नः ॥ २. ३. ५५ ॥
10 वेः परस्य स्कभ्नातेः सकारस्य नित्यं षो भवति । योगविभागाद् वेति निवृत्तम्, अन्यथा हि वेः स्कभ्नश्चेति क्रियेत । विष्कभ्नाति, विष्कम्भिता, विष्कम्भकः, विष्कम्भयति । श्नानिर्देशः किम् ? सश्नोर्मा भूत्-विस्कभ्नोति । स्कम्भूः सौत्रो धातुः अषोपदेशः ॥ ५५ ।।
न्या० स०-स्कन्नः। ननु श्नानिर्देशाद् यत्र श्नाप्रत्ययस्तत्रैव षत्वं प्राप्नोति,15 न त तदभावे विष्कम्भितेत्यादौ ? नवम-श्नानिर्देशस्य श्ननिषेधपरतया व्याख्यातत्वात । निष्कभ्नातीत्यत्र क्षम्नादित्वाण्णत्वाभावः। सश्नोर्मा भूदिति-यदाह चन्द्रः-यद्यत्रापि स्यात् तदा स्कम्भ इति निदिशेत्, तस्मात् श्नानिर्देशादन्यत्र शिति प्रत्यये न षकार इति । शकटस्तु-श्नानिर्देश: ष्टभुङ स्कभुङिति भौवादिकनिवृत्त्यर्थमिति, अत एवोत्पलेनापि विष्कम्नाति विष्कम्णोतीति श्नुप्रत्ययेऽपि षत्वं गणपाठाभावाण्णत्वं च उदाहृतम्20 ।। २. ३. ५५ ।।
नि-दु-सु-वे सम-सूतेः ॥ २. ३. ५६ ॥
निर्दुःसुविभ्यः परस्य समसूतिसंबन्धिनः सकारस्य षो भवति । निःषमः, दुःषमः, सुषमः, विषमः; निःपूतिः, दूःपूतिः, सुषूतिः, विषूतिः । समसूतीति नाम्नोर्ग्रहणाद् धातोर्वैरूप्ये च न भवति-निःसमति, दुःसमति, सुसमति,25 विसमति; निःसूतम्, दुःसूतम्, सुसूतम्, विसूतम् । अन्ये तु सम