________________
बृहद्वृत्तिल घुन्याससंवलिते
[ पा० ३. सू० ५७-५८ . ]
सूत्योर्धात्वोरेवेच्छन्ति, तन्मते - निःषमति, दुःषमति, निःषूतं दुःषूतमित्यादावेव
भवति ।। ५६ ।
३२८ ]
"
न्या० स० - नि-दु-सुः वे: ० । समेति सह मया वर्तते इति समः “ गोश्चान्ते० ' [ २. ४. ε६. ] । निर्गतो निश्चितो वा समात्, सम इति समतीति प्रयोगकदेशः, "षम ष्टम" इत्यजन्तस्य च भवति । सूतीत्यादादिकस्य "इ कि तिव्०” [५. ३. १३८. ] 5 इति श्तिव्यपि भवति, सूति-सूयति-सुवतीनां क्त्यन्तानां च । तत्र "अवः स्वप०' [२. ३. ५७.] इत्यनेन पृथग् योगान्नाम्नोरेव ग्रहणं न धात्वोरित्याह-नाम्नो ग्रहरणादितिनामग्रहणे च लिङ्गविशिष्टस्यापि तेन सुषमा इत्यादिधात्वोरेवेच्छन्तीत्युक्त्वा कथं निः षूतमित्याद्युदाहृतम् ? सत्यम् - क्तप्रत्ययात् प्रागेव सुतेरुपसर्गेण योगाद् भविष्यति
।। २. ३. ५६ ।।
अवः स्वपः ।। २. ३. ५७ ॥
निर्दुः-सु-विपूर्वस्य वकाररहितस्य स्वपेर्धातोः सकारस्य षो भवति । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः; निष्षुप्तः, दुःषुप्तः; सुषुप्तः; विषुप्तः । अव इति किम् ? निःस्वप्नः दुःस्वप्नः, सुस्वप्नः, विस्वप्नः; विसुष्वाप ।। ५७ ।।
न्या० स० -- श्रवः स्वपः निःषुप्त इत्यादी "ज्ञानेच्छा ०" [५. २. २. ] इति क्तः
।। २. ३. ५७ ॥
T
10
15
प्रादुरुपसर्गाद् य-स्वरेऽस्तेः ॥ २. ३. ५८ ॥
प्रादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात् परस्यास्तेः सकारस्य यकारादौ स्वरादौ च प्रत्यये परे षो भवति । प्रादुःष्यात्, निष्यात्, 20 विष्यात्, अभिष्यात् ; प्रादुःषन्ति, निषन्ति विषन्ति, अभिषन्ति ; शिड्नान्तरेऽपि - निःष्यात् निःषन्ति । प्रादुरुपसर्गादिति किम् ? दधि स्यात्, मधूनि सन्ति यदत्र मां प्रति स्यात् तद् दीयताम्, सर्पिषोऽपि स्यात् । य-स्वर इति किम् ? प्रादुः स्तः, निस्तः, अनुस्तः, अनुस्वः, अनुस्मः । अस्तेरिति किम् ? विसृतम् अनुसृतम्, अनुसूते: क्विपि अनुसूस्तस्यापत्यं शुभ्रादित्वादेयण 25 ऊलोपः- आनुसेयः । प्रादुःशब्दस्य तु कृभ्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति ।। ५८ ।।