________________
३२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ५१-५३.]
चान्द्रादयः। पयुंदासोऽयमिति-अयमर्थः-अप्राणिनीति पर्युदासत्वाट विधेः प्राधान्यात्, सम्भवति चैकवाक्यत्वे वाक्यभेदाश्रयणस्यायुक्तत्वात्, प्रसज्यप्रतिषेधे तु न चेदित्यादिवाक्यभेदस्यावश्यंभावित्वात्, यतो यत्र प्राणी चाप्राणी च भवति । प्रसज्यप्रतिषेध इति-प्रसङ्ग कृत्वा प्रतिषेधः प्रसज्यप्रतिषेधः "अव्ययं प्रवद्धादिभिः" [ . १.४८. ] इति सः, "प्रसज्यस्तु निषेधकृत्" इत्यत्र तु "ते लुग् वा" [ ३. २. १०८. ] इति प्रतिषेध- 5 लोपः। ननु तदा "अव्ययस्य" [३. २. ७.] इति कथं सेर्न लुप् ? उच्यते-समाससम्बन्धी सिरत्र नाव्ययस्येति न भवति ।। २. ३. ५० ॥
वेः स्कन्दोक्तयोः ॥ २. ३. ५१ ॥
विपूर्वस्य स्कन्देः संबन्धिनः सकारस्य षो वा भवति, अक्तयोः-न चेत् क्तक्तवत् प्रत्ययौ भवतः, द्विवचनादर्थवद्ग्रहणानपेक्षमुभयपरिग्रहः । विष्कन्ता,10 विस्कन्ता; विष्कन्तुम्, विस्कन्तुम् । अक्तयोरिति किम् ? विस्कन्नः, विस्कन्नवान् ।। ५१ ।।
परे ॥ २. ३. ५२ ॥
परिपूर्वस्य स्कन्दे: सकारस्य षो वा भवति परिष्कन्ता, परिस्कन्ता, परिष्कन्तुम्, परिस्कन्तुम् । योगविभागादक्तयोरिति नानुवर्तते, तेन-क्तयोरपि15 विकल्पो भवति-परिष्कण्णः, परिस्कन्नः; परिष्कण्णवान्, परिस्कन्नवान् । केचित् तु परिपूर्वस्य स्कन्देरजन्तस्य घनन्तस्य वा प्राच्यभरतविषये प्रयोगे नित्यं षत्वमन्यत्र विकल्पमिच्छन्ति, अन्ये तु प्राच्यभरतविषये प्रयोगे षत्वाभावमन्यत्र तु विकल्पमिच्छन्ति; तदुभयं नारम्भरणीयमनेनैव सिद्धत्वादिति ।। ५२ ।।
न्या० स०--परेः। योगविभागादिति-विपरिभ्यां स्कन्दोऽक्तयोरित्येवंरूपात् अन्ये त्विति । चन्द्रपाणिनिदेवनन्दिप्रभृतयः अनेनैवेति-वेतीत्यस्य व्यवस्थितविभाषार्थत्वादिति शेषः ।। २. ३. ५२ ।।
नि-नः स्फुर-सफुलोः ॥ २. ३. ५३ ॥
निनिभ्यां परयोः स्फुरति-स्फुलत्योः सकारस्य षो वा भवति ।25 निःष्फुरतिः, निःस्फुरति; निष्फुरति, निस्फुरतिः; निःष्फुलति; निःस्फुलति, निष्फुलति निस्फुलति । वचनभेदो यथासंख्यनिवृत्त्यर्थः ।। ५३ ।।
20