________________
[पा० १. सू० १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
पदेनोच्यते सूच्यते वा इत्यभिधीयते-परमात्मानमित्यनेन पूजातिशयः, अत एव "सन्महत्परम." [३. १. १०७.] इत्यनेन पूजायां समासः । द्वितीयपादेन वचनातिशयः, श्रेयांश्च ३ एकशेषे श्रेयांसः, ते च ते शब्दाश्च ताननुशास्तीति व्युत्पत्तेवंचनातिशयः। वचनातिशयश्च न ज्ञानातिशयं विनेति वचनातिशयेन ज्ञानातिशय आक्षिप्यते। ज्ञानातिशयश्च नापायापगमातिशयं विनेति तेनापायापगमातिशयाऽऽक्षेपः-अपायभूता हि रागादयस्तेषामपगमः स 5 एवातिशय इति।
अहमिति-अर्हति पूजामित्यहम् "अ" [ उणा० २. ] इत्यः । पृषोदरादित्वात् सानुनासिकत्वम् । अहमिति मान्तोऽप्यस्ति निपातः। ननु अहमिति अव्ययं स्वरादौ चादौ च न दृष्टम्, तत् कथमव्ययं ? सत्यम्--- इयन्त इति संख्यानं निपातानां न विद्यते । प्रयोजनवशादेते निपात्यन्ते पदे पदे ॥५॥ 10
ननु अहमिति वर्णसमुदायत्वात् कथमक्षरम् ? सत्यम्-न क्षरति न चलति स्वस्मात् स्वरूपादिति अक्षरम्, तत्त्वं ध्येयं परमब्रह्मति यावत् । व्याख्यानं त्रिधा स्यात्-स्वरूपाख्यानम् , अभिधा, तात्पर्यं चेति । अक्षरमिति स्वरूपाख्यानम् । परमेष्ठिनो वाचकमित्यभिधा । सिद्धचक्रस्यादिबीजमिति तात्पर्यव्याख्यानमिति । परमेष्ठिनः पञ्च ततः शेषचतुष्टयव्यवच्छेदायाऽऽह-परमेश्वरस्येति । चतुस्त्रिशदतिशयरूपपरमैश्वर्यभाजो जिनस्येत्यर्थः । ननु यद्यपि15 परमेष्ठीति सामान्यं पदं तथापि अहमिति भणनादर्हन्नेव लभ्यते, किं परमेश्वरस्येतिपदेन ? सत्यम्
देवतानां गुरूणां च नाम नोपपदं विना ।
उच्चरेन्नब जायायाः कथञ्चिन्नात्मनस्तथा ॥६॥ इति । सिद्धति-सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्र तस्य पञ्चबीजानि तेषु चेद-20 मादिबीजम् । सकलेति-सकलाः समस्ता ये आगमा लौकिका लोकोत्तराश्च तेषामुपनिषद्भूतं रहस्यभूतम् । ननु अहमित्यस्याहद्वाचकत्वे सति कथं लौकिकागमानामुपनिषद्भूतमिदमिति ? सत्यम्-सर्वपार्षदत्वाच्छब्दानुशासनस्य समग्रदर्शनानुयायी नमस्कारो वाच्यः, अयं चाहमपि तथा । तथाहिप्रकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् ॥७॥25
___ इति श्लोकेनाहंशब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अर्हमिति पदमुपनिषद्भूतमित्यावेदितं भवति । तदन्त इति तुरीयपादस्यायमर्थः-तस्याहंशब्दस्यान्त उपरितने भागे परमं पदं सिद्धिशिलारूपं तदाकारत्वादनुनासिकरूपा कलाऽपि परमं पदमित्युक्तम् । निघ्नमिति-नियमेन हन्यते ज्ञायते पारतन्त्र्येणेति "स्थादिभ्यः कः" [५. ३. ८२.] बाहुलकानपुंसकत्वम् । दृष्टेति-दृष्टं राज्यादि, अदृष्टं स्वर्गादि ।30 प्राशास्त्रेति-पाङ अभिविधौ, स च शास्त्रेण सह संबध्यते, अवधिशब्दस्तु मर्यादायाम्, स चाध्ययनाध्यापनाभ्याम् ; ततोऽयमर्थ:-शास्त्रमभिव्याप्य ये अध्ययनाध्यापने ते मर्यादीकृत्य