________________
२
]
बृहवृत्ति-लवुन्याससंवलिते
[पा० १. सू० १.]
श्रीहेमचन्द्रसूरिनिबिडजडिमग्रस्तं समस्तमपि विश्वमवलोक्य तदनुकम्पापरीतचेता: शब्दानुशासनं कर्तु कामः प्रथमं मङ्गलार्थमभिधेयादिप्रतिपादनार्थं चेष्टदेवतानमस्कारमाह-प्रणम्येति ननु प्रयोगोऽयं भावे कर्मणि वा ? उच्यते-भावे एव । तहि कथं परमात्मानमिति कर्म ? उच्यतेसकर्मकारणामुत्पन्नस्त्यादिर्भावविवक्षया । अपाकरोति कर्मार्थ स्वभावान्न पुनः कृतः ॥ ३ ।। 5
नत्वेत्यनेनापि सिध्यति किं प्रकारेण? प्रकारो मानसिक द्योतयति उपहासनमस्कारं च निराकरोति
नमस्यं तत् सखि ! प्रेम घण्टारसितसोदरम् ।।
क्रमक्रशिमनिःसारमारम्भगुरुडम्बरम् ॥४॥ इत्यादिवत् । परमेति-परमात्मानमित्यत्र “कर्मणि कृतः" [ २. २. ८३. ] इति षष्ठी प्राप्नोति,10 परं "तृन्नुदन्ता०' [ २. २. ६०. ] इति निषधः । श्रेय इति "प्रशस्यस्य श्रः" [७. ४. ३४] इति श्रादेशविधानबलात् क्रियाशब्दत्वेनागुणाङ्गादपि प्रशस्यशब्दादीयस् । “नैकस्वरस्य" [७. ४. ४४. ] इति निषेधात् “श्यन्त्यस्वरादे०" [७. ४. ४३. ] नान्त्यस्वरादिलोपः । "अवर्णवर्णस्य" [७.४.६८.] इत्यपि न प्रवर्तते । "व्यन्त्यस्वरादेरनेकस्वरस्य" [७. ४. ४३. ] इत्येकयोगेनैव सिद्ध पृथग्योगकरणमस्यापि बाधनार्थमिति । शब्दानु-15 शासनमिति अत्र कथं षष्ठीसमासः "तृतीयायाम्" [ ३. १. ४. ] इति निषधात् ? सत्यम्प्रत्यासत्ति-न्यायेन यस्य कृत्प्रत्ययस्यापेक्षया षष्ठी यदि तदपेक्षयैव तृतीया स्यात्, अत्र तु प्रकाश्यत इत्यस्यापेक्षया तृतीया, अनुशासनइत्यपेक्षया च षष्ठीति न समासनिषधः । प्राचार्येति-पाचर्यते सेव्यते विनयार्थमिति घ्यण् १; आचारे साधुः “तत्र साधौ" [ ७. १. १५. ] इति य: २; आचारान् यातीति, “क्वचित्" [ ५. १. १७१. ] इति20 ड: ३; पाचारानाचष्टे "णिज् बहुलम् ." [ ३. ५. ४२. ] इत्यनेन णिज्; आचारयतीति "शिक्यास्याड्य." [उणा० ३६४.] इत्यनेन निपात्यते ४; आचारान् गृह्णाति ग्राहयति वा "कर्मणोऽण्" [५. १. ७२.] पृषोदरादित्वात् साधुः ५। किमपि चिनोति क्विप्, किमः सर्वविभक्त्यन्तान् “चित्-चनौ” इति किञ्चिदिति अखण्डमव्ययं वा। मौलोऽर्थः प्रतीत एव ।
25
अथ पूर्वार्धमावृत्त्या व्याख्यायते-परम् प्रात्मानं च प्रणम्य प्रह्वीकृत्य सावधानीकृत्येति योगः। किविशिष्टं परम् ? श्रेयःशब्दाननुशासयति श्रेयःशब्दानुशासनस्तम्, किंविशिष्टं चात्मानम् ? श्रेयःशब्दाननुशास्ति श्रेयःशब्दानुशासनस्तम् उभयत्र "रम्यादिभ्यः." [ ५. ३. १२६. ] इत्यनट् । पूर्वं तावद् बौद्धोक्ता अतिशयाः कथ्यन्ते । परमात्मानमित्यनेन स्वार्थसंपत्तिः,स्वार्थसंपत्त्यपायलक्षणश्च द्वौ, श्रेयःशब्दानुशासनमित्यनेन 30 परार्थसंपत्तिः, परार्थसंपत्त्युपायलक्षणश्च द्वौ लभ्यते । एवं सर्वदर्शनानुयायित्वेनातिशया भावनीयाः । अत्र च नमस्कारे चतुस्त्रिशदतिशयसंग्राहकातिशयचतुष्टयमध्ये क: केन