________________
॥ अहं॥ ॥ अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ ॥ श्रीमद् दान-प्रेम-रामचन्द्र-भद्रङ्करसद्गुरुभ्यो नमः ॥
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीतं
॥ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
( स्वोपजतत्त्वप्रकाशिकाभिधबृहद्वत्ति-मनीषिकनकप्रभविरचित
न्याससारसमुद्धार (लघुन्यास) संवलितम् )
[ तत्र प्रथमोऽध्यायः ] अथ स्वोपज्ञतत्त्वप्रकाशिकाभिधा बृहद्वृत्तिः-- प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् । प्राचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥1॥10
अर्ह ॥ १. १. १ ॥
अहंइत्येतदक्षरम्,परमेश्वरस्य परमेष्ठिनो वाचकम्,सिद्धचक्रस्यादिबीजम्, सकलागमोपनिषद्भूतम्, अशेषविघ्नविघातनिघ्नम्, अखिलदृष्टादृष्टफलसंकल्पकल्पद्रुमोपमम्, प्राशास्त्राध्ययनाध्यापनावधि प्रणिधेयम् । प्रणिधानं चानेनाऽऽत्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः । वयमपि चैतच्छास्त्रारम्भे प्ररिण-15 दध्महे । अयमेव हि तात्त्विको नमस्कार इति ॥ १॥
अथ न्याससारसमुद्धारः - प्रणम्य केवलालोकावलोकितजगत्त्रयम्। जिनेशं श्रीसिद्धहेमचन्द्र शम्दानुशासने ॥१॥ शब्दविद्याविदां वन्धोदयचन्द्रोपदेशतः । न्यासतः कतिचिद्दुर्गपदव्याख्याऽभिधीयते ॥२॥
प्रणम्येत्यादि-इह निःशेषशेमुषीसमुन्मेषनिमितानेकविद्वज्जनमनश्चमत्कारिशास्त्र-20 निकरविस्मापितविशदप्रद्धिमहद्धिकानेकसूरिः निष्प्रतिमप्रतिभासंभारापहस्तितत्रिदशसूरिः श्रीकुमारपालक्ष्मापालप्रतिबोधविधाननिखिलक्षोणिमण्डलाभयप्रदानप्रभृतिसंख्यातिक्रान्तप्रभावनानिर्माणस्मृतिगोचरसंचरिष्णुकृतचिरन्तनवरस्वाम्यादिप्रवरसूरिः सुगृहीतनामधेयः