________________
३१८ ]
बृहद्वृत्तिलधुन्याससंवलिते
[पा० ३. सू० ३७-३८.]
स्यादिविधौ प्रथमं कृतमपि षत्वं निवर्तत इति प्राग् नागमः, तस्मिन् च नामिनो व्यवधाने- । ऽपि शिड्नान्तरेऽपि इति षत्वम् ।। २. ३. ३६ ।।
णि-स्तोरेवास्वद-स्विद-सहः षणि ॥ २. ३. ३७ ॥
स्वद-स्विद-सहवर्जितानां ण्यन्तानां स्तौतेरेव च संबन्धिनः सकारस्य नाम्यन्तस्थाकवर्गात् परस्य षणि-षत्वभूते सनि परे षो भवति, नान्येषाम् । 5 सिषेवयिषति, सुष्वापयिषति, सिषेधयिषति; तुष्टूपति । स्वदादिपर्युदासः किम् ? सिस्वादयिषति, सिस्वेदयिषति, सिसाहयिषति । स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामपि षोपदेशानामेव ग्रहणम्, तथा च कृतत्वात् सकारस्य “नाम्यन्तस्थाकवर्गा." [२. ३. १५.] आदिसूत्रेणैव सिद्धे नियमार्थं वचनम्-णिस्तोरेव षणि षत्वं नान्यस्य, तेनेह न भवति-10 सुसूषति, सिसिक्षति, सिसेविषति। एवकारः षण्येव णिस्तोरिति विपरोतनियमनिवृत्त्यर्थः, तेनेहापि भवति-असीषिवत्, तुष्टाव । षणीति किम् ? सिषेव, सुष्वाप । षत्वं किम् ? सुषुप्सति, तिष्ठासति । नकारः किम् ? व्यतिसुषुपिये। कथं प्रतीषिषति ?, अधीषिषति ? षणि निमित्त धातोः षत्वनियम उक्तः, इह तु सन एव द्विरुक्तस्य षत्वं न धातोरिति न प्रतिषेधः ।15 'सोषुपिषते, सेषिविषते' इत्यादौ तु यङि द्वित्वं पश्चात् सन्निति न प्रतिषेधः । येषां तु दर्शने द्वित्वेऽपि पुनः सनि द्विरुक्तिः, तन्मते-सुसोषुपिषत इत्यत्र पणि सुशब्दात् परस्य सस्य षत्वं न भवत्येव ।। ३७ ।।
न्या० स०--रिणस्तो०। प्रतीषिषतीति-अत्र “इण्क् गतौ” इति लिख्यते, तस्य च ज्ञानार्थत्वात् “सनीङश्च" [ ४. ४. २५. ] इति न गम्वादेशः । “इंक स्मरणे"20 "इंङक अध्ययने" इत्यनयोस्तु अज्ञान इति विशेषणं नासम्भवात्, अतोऽनयोर्गम्वादेशः प्राप्नोतीत्येतौ न लिख्येते, "इणं क गतौ" इत्यस्याप्यज्ञानार्थत्वविवक्षायामादेशप्राप्तिः । "इंदु" इत्यस्य तु ज्ञानार्थत्वविवक्षायामविवक्षायामपि नादेश:, "इणिकोई:" [४. ४. २३.] इत्यत इणिकोश्चानुकृष्टत्वात् “सनीङश्च" [४. ४. २५. ] इति चकारेण । सोसुपिषत इति-अत्र यङोऽकारस्य स्थानित्वेन न गुणः, तथा 'नाम्यन्तस्था०" [२.३.१५.]25 इत्यस्यैवायं नियमः, एतद्विषय एवारम्भात् ।। २. ३. ३७ ।।
सजेर्वा ॥ २. ३. ३८ ॥ इकारान्तनिर्देशात् सञ्ज इह ण्यन्तो गृह्यते, सञ्जयते म्यन्तस्थाकवर्गात्