________________
[पा० ३. सू० ३९.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३१६
परस्य षणि परे सस्य षो वा भवति । सिसञ्जयिषति, सिषजयिषति । नित्यं एत्वमित्येके ।। ३८ ।।
न्या० स०--सजेर्वा इकारान्तनिर्देशादिति-अत एव इह इकार उच्चारणार्थों न क्वचिदपि विहितः ।। २. ३. ३८ ॥
उपसर्गात् सुग-सुव-सो-स्तु-स्तुभोऽव्यप्यद्वित्वे 5
॥ २. ३. ३६ ॥ अद्वित्वे-द्विर्वचनाभावे सति सुनोति-सुवतिस्यति-स्तौति-स्तोभतीनां सकारस्योपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य षो भवति, अटयपिअडागमेऽपि सति, अड्व्यवधानेऽपीत्यर्थः । सुग्-अभिषुणोति, परिषुणोति । शिड्नान्तरेऽपीत्यधिकारात्-निःषुणोति, दुःषुणोति; अभिषुण्वन्तं प्रयुक्त-10 अभिषावयति, अत्रोपसर्गसंबन्धे सति णिः । ण्यन्तानां धातूनामुपसर्गसंबन्धे न भवति-अभिसावयति, परिसावयति; अट्यपि-अभ्यषुणोत्, पर्युषुणोत् । गिन्निर्देशात् सौतिसवत्योर्मा भूत-अभिसौति, अभिसवति । सुव-अभिषुवति, परिषुवति; अट्यपि-अभ्यषुवत्, पर्यषुवत्, शनिर्देशात्, सूतिसूयत्योर्न भवतिअभिसूते, अभिसूयते । सो-अभिष्यति, परिष्यति, अटयपि-अभ्यष्यत्, पर्यष्यत् ।15 स्तु-अभिष्टौति, परिष्टौति; सुष्टुतम्, सुष्टवम्, दुःष्टवम्; अटयपिअभ्यष्टौत्, प्रत्यष्टौत् । स्तुभ-अभिष्टोभते, परिष्टोभते; अटयपि-अभ्यष्टोभत्, पर्यष्टोभत् । उपसर्गादिति किम् ? दधि सुनोति, मधु सुनोति । पूजायां सोः पूजा-अतिक्रमयोश्चातेरुपसर्गत्वाऽभावादिह न भवति-सुस्तुतम्, अतिस्तुतम् ।
येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा इति धात्वन्तरयोगे न20 भवति-निर्गताः सावका अस्मादसौ निःसावको देशः, अभिसावकीयतीत्यत्र सावकीयतेरभिना योगो न भवति । शिड्नान्तरेऽपीत्यधिकारात् अटा व्यवधाने न प्राप्नोतीत्यटयपीति ग्रहणम्, अपिशब्दोऽभावार्थः; अन्यथाटये व स्यात् । अद्वित्वे इति किम् ? अभिसुसूषति, अभ्यसुसूषत् ; परिसुसूषति, पर्यसुसूषत्; अभिसिषासति, अभ्यसिषासत् ; अत्र पूर्वसकारस्य षत्वं न भवति, मूलधातोस्तु25 यथाप्राप्तं षत्वं भवत्येव । केचित् तूपसर्गपूर्वाणां सुनोत्यादीनां पञ्चानामपि