________________
३१० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० १६-१६.]
तत्संपृक्तः समुदायो द्विरुच्चार्यते । तिसृभिरित्यत्र तु विधानबलात् न भवति । अधिकारश्चायमा षत्वविधैः ।। १५ ॥
न्या० स०-नाम्यन्तस्था० । अनुस्वारभवनादिति-नित्यत्वादन्तरङ्गत्वाच्चेत्यर्थः । बिसमिति-अव्युत्पन्नो ग्राह्यः, न तु "पटि-वीभ्यां डिसडिसी" [ उणा० ५७६. ] इति; यद्वा "विसच प्रेरणे" विस्यति "नाम्यूपान्त्यः " [५.१.५४. ] इति के-विसम्; 5 यदा तु डिस-डिसौ तदा विधानसामर्थ्यान्न भवति ।। २. ३. १५॥
समासेग्नेः स्तुतः ॥ २. ३. १६ ॥
अग्निशब्दात् परस्य स्तुत्शब्दसंबन्धिनः सकारस्य समासे षो भवति । अग्निष्टुत्, अग्निष्टुतौ; अग्निष्टुतः ।। १६ ।।
न्या० स०-समासे०। असष इति वचनात् सकारस्य पदमध्यत्वं नास्तीति10 वचनम् ।। २. ३. १६ ।।
ज्योतिरायुभ्यां च स्तोमस्य ॥२. ३. १७॥
ज्योतिरायुःशब्दाभ्यामग्नेश्च परस्य स्तोमशब्दसंबन्धिनः सकारस्य समासे षो भवति । ज्योतिःष्टोमः, आयु:ष्टोमः; अग्निष्टोमः ।- समास इत्येवज्योतिः स्तोमं दर्शयति ।। १७ ।।
न्या० स०-ज्योतिरायुः । ज्योतिः स्तोमं दर्शयतीति-ज्योतिः प्रदीपादि कर्तृ समूहं दर्शयतीत्यर्थः ।। २. ३. १७ ॥
मातृ-पितुः स्वसुः ॥ २. ३. १८ ॥
मातृपितृभ्यां परस्य स्वसृशब्दसंबन्धिन: सकारस्य समासे षो भवति । मातृष्वसा, पितृष्वसा। समास इत्येव-मातुः स्वसा, पितः स्वसा ।। १८ ।। 20
न्या० स०--मातृ-पितुः। अकृतत्वात् पदादित्वाच्चाप्राप्तविधानम् । मातृपितुरित्यत्र सूत्रत्वात् “पा द्वन्द्व" [२. २. ३६.] इति न प्रवर्तते । वन्दिरत्नमतिस्तुआकारस्यानिर्देश ऋकारान्तस्वरूपपरिग्रहार्थः, ऋकारान्तस्वरूपं षष्ठीतत्पुरुष एव न तु द्वन्द्व इति मन्यते ।। २.३.१८ ।।
अलपि वा ॥ २. ३. १६॥ मातृपितृभ्यां परस्य स्वसृशब्दसंबन्धिनः सकारस्याऽलुपि समासे षो वा
15
25