________________
[पा० ३. सू० १५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३०६
[६. ३. १४६.] इत्यण ? सत्यम्-भूतपूर्वकन्यायाद् भविष्यति । अहस्करः-अहः किरति लिहाद्यचिति कार्य, कृगस्तु "अतः कृकमि०" [२. ३. ५.] इति सिद्धमेव । अयस्कान्तेति-कनै इत्यस्य रूपं, कामपतेस्तु "अतः कृकमि०" [२. ३. ५.] इति सिद्धमेव, कामपतेर्वा समस्तार्थमिह पाठः, तेन परमायस्कान्त इत्यपि भवति । कस्क इति-यद्येवं "कः कः कुत्र न घुघुरापितधुरोघोरो चुरेत् सूकरः" इत्यादि कथम् ?, यतस्तत्रापि कस्क: 5 इति स्यात्, सत्यम्-परमताभिप्रायेण, ते हि "भ्रातुष्पुत्र." [ २. ३. १४. ] इति सूत्रं सन्धिविधौ विदधति, ततो विरामे विवक्षिते सति “न सन्धिः" [१. ३. ५२.] इत्यस्य प्रवृत्तेर्न सत्वम् ।। २. ३. १४ ॥
नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः
शिइनान्तरेऽपि ॥ २. ३. १५ ॥10
नामिनोऽन्तस्थायाः कवर्गाच्च परस्य पदान्तः-पदमध्ये कृतस्य-विहितस्य कृतसंबन्धिनो वा सः सकारस्य षो भवति, शिटा नकारेण चान्तरेऽपिव्यवधानेऽपि । नामिनः-आशिषा, अग्निषु, नदीषु, वायुषु, वधूषु, पितृषु, एषा, गोष, नौष, सिषेवे, शिष्यते, चिचीषति, सुष्वाप, लुलूषति, जेष्यति, अनैषीत् , अच्योष्ट, अकौषीत् ; 'सर्पिष्मान् , यजुष्मान्, दोष्मान्' इत्यादौ "न15 स्तं मत्वर्थे " [१. १. २३.] इति पदप्रतिषेधात् पदमध्यत्वम् । अन्तस्थायाःगीर्षु, धूर्षु, चिकीर्षति, पुपूर्षति, हल्षु । कवर्गात्-वाक्षु, त्वक्षु, पिपक्षति, शिक्षति, अपाषु, क्रुषु । शिड्नान्तरेऽपि-सर्पिष्षु, हविष्षु, अत्र सकारेण व्यवधानम्; सर्पिःषु, धनुःषु; सीषि, यजूंषि, बह्वाशींषि कुलानि नकारस्यावश्यमनुस्वारभवनात् शिट्ग्रहणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानु-20 स्वारेण यथा स्यादित्येवमर्थम्, तेन मकारानुस्वारेण न भवति- पुंसु । शिटा नकारेण चान्तरे इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यवधाने न भवति"णिसुकि चुम्बने" निस्से । नाम्यन्तस्थाकवर्गादिति किम् ? असो, दास्यति । पदान्त इति किम् ? पदादौ पदान्ते च मा भूत्-दधिसेक् , दधिसेचौ; ईषदपरिसमाप्तः सेक्-बहुसेक् , बहुसेचौ; अत्रान्तर्वतिन्या विभक्त्या सेक्-25 शब्दस्य पदत्वात् सकारस्य पदादित्वम् ; अन्ते-अग्निस्तत्र । कृतस्येति किम् ? बिसम्, मुसलम्, सिसाधयिषति । अथ बिसं बिसं, मुसलं मुसलमित्यादौ द्वित्वे कृते सकारस्य षत्वं कस्माद् न भवति ? उच्यते-नात्र कृतः सकारः किन्तु