________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ३. सू० १४. ]
परमधनुष्करोतीति परमसर्पिः परमधनुः शब्दयोरिसुसन्तत्वाभावान्मा भूत् षकारः, परमुत्तरपदार्थप्रधानत्वात् समासस्य सर्पि-र्धनुः शब्दयोरिसुसन्तत्वात् तदाश्रयः षो भविष्यति, किं तदर्थेन ज्ञापकेन न चैवं सति परमसर्पिः कुण्डमित्यत्रापि प्राप्नोति, सर्पिः शब्दस्य कुण्डेनासमासात्, किन्तु परमसर्पिः शब्दः, उच्यते - यद्यपि परमसर्पिः करोत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षया योगात् षत्वं सिद्धयति, तथापि परमं सर्पिर्यस्य सर्पिषः समीपं 5 सर्पिषो निष्क्रान्तमिति - परम सर्पिष्करोति, उपसर्पिष्करोति, निःसर्पिष्करोतीत्यत्र न सिद्धयति, सर्पिः शब्दस्य करोतिक्रियायाश्च व्यपेक्षाभावादिति तदर्थमिदं ज्ञापकमिति भावः ।। २. ३. १३ ।।
३०८ ]
भ्रातृष्पुत्र-कस्कादयः ।। २. ३. १४ ॥
भ्रातुष्पुत्रादयः कस्कादयश्च क ख - प - फेषु परेषु रेफस्य स्थाने यथासंख्यं 10 कृतषत्व-सत्वाः साधवो भवन्ति । भ्रातुष्पुत्रः, “ऋतां विद्या - योनिसंबन्धे" [ ३. २. ३७. ] इति षष्ठ्या प्रलुप्, परमसर्पिष्कुण्डिका, परमधनुष्कपालम्, परमबर्हिष्पूलः, परमयजुष्पात्रम् अत्र सर्पिष्कुण्डिका - धनुष्कपाल- बर्हिष्पूलयजुष्पात्राणां पूर्वेण षत्वे सिद्धेऽपि समस्तार्थमिह पाठः, अन्ये त्वेषां समस्तानां षत्वं न मन्यन्ते, तन्मते तु - परमसर्पिः कुण्डिकेत्यादिषु षत्वं न भवति । कस्कः - 15 वीप्सायां द्विर्वचनम्; कुतः कुतः श्रागतः कौतस्कुतः; शुनस्कर्णः - “षष्ठ्याः क्षेपे" [३. २. ३०.] इत्यलुप्; सद्यस्कालः - बहुव्रीहिरसमासो वा; सद्यः क्रयणं सद्यस्क्रीः, तत्र भवः - साद्यस्त्रः । भ्रातुष्पुत्र, सर्पिष्कुण्डिका, बर्हिष्पूल, यजुष्पात्र इति भ्रातुष्पुत्रादयः । कस्कः, कौतस्कुतः, शुनस्कर्णः, सद्यस्कालः, सद्यस्त्रीः, साद्यस्क्रः, भास्करः, अहस्करः, अयस्काण्डः, तमस्काण्डः, अयस्कान्तः, 20 अयस्कुण्डः, मेदस्पिण्ड; प्रयस्पिण्ड इति कस्कादयः । बहुवचनमाकृतिगणार्थम्, तेन यथादर्शनमन्येऽपि भवन्ति । सर्वत्र नामिनः परस्य रेफस्य षत्वमन्यत्र सत्वं द्रष्टव्यम् ।। १४ ।।
न्या० स० -- भ्रातुष्पुत्र० । साद्यस्क्रः सद्यस्क्रीशब्दादेव साद्यस्त्रस्य सिद्धत्वात् पृथगुपादानं प्रत्ययान्तरनिवृत्त्यर्थं तेन सद्यस्त्रियो भावः - सद्यः क्रीता इत्यत्र न सत्वम् 125 कौतस्कुतः गरणपाठादरण, अन्यथा "क्वेहामात्र०" [ ६.३.१६. ] इति त्यच् स्यात्, किञ्च तसन्तस्य प्रथमान्तत्वेन “ततः ० [ ६. ३. १४६ ] इति पञ्चम्यन्ताद् विधीयमानो न प्राप्नोति । केचित् त्वपञ्चम्यन्तादधि प्रणमिच्छन्ति, सतस्तन्मतेन " तत श्रागते" [ ६. ३. १४६. ] इत्यनेन वाऽण । ननु द्वित्वे तत एकपदत्वाभावात् कथं " तत श्रागते”