________________
[ पा० ३. सू० १२-१३ . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३०७
नेकार्थेsक्रिये ॥ २. ३. १२ ॥
न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्न कार्थे - समानाधिकरणे पदे यत् कखपफं तस्मिन् परे इसुस्प्रत्ययान्तस्य संबन्धिनो रेफस्य षो न भवति, "वेसुसोऽपेक्षायाम्” [२. ३. ११.] इत्यस्यायं प्रतिषेधो नान्यस्य, तद्विषय एवारम्भात् सर्पि) (कालकम् । यजु — पीतकम् । एकार्थे इति किम् ? s सर्पिष्कुम्भे, सर्पि) (कुम्भे; धनुष्पुरुषस्य, धनु - पुरुषस्य । प्रक्रिय इति किम् ? सर्पिष्क्रियते, सर्पिः क्रियते, धनुष्प्राप्तम्, धनुः प्राप्तम् ।। १२ ।।
न्या० स० - नैकार्थेऽक्रिये एकार्थे इत्यत्र एकशब्दः समानार्थः, यथा चैत्रमैत्रयोकमातेति, एका-समानेत्यर्थः, अर्थशब्दस्तु इदं तदित्यादि सर्वनाम्ना व्यपदिश्यमानेऽनेकस्य युगपत् प्रयुज्यमानस्य भिन्नप्रवृत्तिनिमित्तकस्य शब्दस्याधिकरणे द्रव्ये वर्तते । सर्पि कालक- 10 मित्यादि - कालकं पीतकमिति गुणवचनमक्रियावाचि समानाधिकरणमतः प्रतिषेधः । पीतकमिति - पीतशब्दः पावदित्वात् स्वार्थे कः, यद्वा पीतेन रक्तमिति "नीलपीतादकम् " [ ६.२.४. ] इति कः ।। २. ३. १२ ।।
समासेऽसमस्तस्य ।। २. ३. १३ ।।
पूर्वेणासमस्तस्य इसुस्प्रत्ययान्तस्य संबन्धिनो रेफस्य क-ख-प-फे परे षो15 भवति, समासे–तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । सर्पिष्कुम्भः, असर्पिः सर्पिः कृत्वा सर्पिष्कृत्य, सर्पिष्खण्डम्, सर्पिष्पानम्, सर्पिष्फलम् ; धनुष्कृत्य, धनुष्खण्डम्, धनुष्पृष्ठम्, धनुष्फलम् । समास इति किम् ? तिष्ठतु सर्पिः, पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पिः कुण्डम्, इन्द्रधनुःखण्डम् ; पूर्वेणापि न भवति समासे सत्यपेक्षाया प्रभावात् । इदमेवासमस्त-20 स्येति वचनं ज्ञापकम् - इसुसोः “प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५.] इत्ययं नियमो न भवति, तेन परमसर्पिष्करोति, परमसर्पिः करोतीत्यत्र "वेसुसोऽपेक्षायाम्" [२. ३. ११.] इत्यनेनाधिकस्यापि विकल्पो भवति । बहुसपि - ष्कुण्डम्, बहुसर्पिष्पात्रमित्यत्र तु बहुप्रत्ययादेरपि समस्तत्वादनेन नित्यं भवति ।। १३ ।।
25
न्या० स०-- समासे० । सर्पिष्पानमिति - "पानस्य भावकरणे" [ २. ३. ६९.] इति त्वे प्राप्ते " षात् पदे " [ २. ३. ε२. ] इति निषेधः । इदमेवेति - ननु परमसर्पिष्करोति