________________
३०६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० १०-११.]
सुचो वा ॥ २. ३. १० ॥
सुजन्तानां संबन्धिनो रेफस्य क-ख-प-फेषु परेषु षकारो वा भवति । द्विष्करोति, त्रिष्करोति, त्रिष्खनति, चतुष्पचति, चतुष्फलति; पक्षे जिह्वामूलीयोपध्मानीयौ विसर्जनीयश्च भवति-द्वि) (करोति, द्विः करोति ; त्रि) (खनति, त्रिः खनति; चतु पचति, चतुः पचति; चतु- फलति, चतुः 5 फलति । सुजन्तस्य चतुरः परत्वादनेन विकल्पो न तु पूर्वेण नित्यो विधिः । कखपफीत्येव-द्विश्चरति, त्रिस्तरति ।। १० ।।
न्या० स०--सुचो वा। सुच इति न रेफस्य विशेषणं, तेन चतुष्पचतीत्यत्रापि विकल्पः, नह्यत्र सुचः स्थाने रेफः “रात् सः" [२. १. ६०.] इति सुचो लोपात्, अतः सुजिति प्रकृतेविशेषणं, तत्र च तदन्तविज्ञानमित्याह-सुजन्तानामिति-एवं हि विज्ञायमाने10 सुचो लोपेऽपि स्थानिवद्भावेन सुजन्त एवायं चतुःशब्द इति । न चैवं त्रिष्करोतीति त्रिशब्दस्यापि सुजन्तसम्बन्धित्वात् कस्मान्न भवतीति वाच्यम्, अनन्तरे कृतार्थत्वादिति ॥२. ३. १० ॥
वेसुसोऽपेक्षायाम् ॥ २. ३. ११ ॥
इस् उस्प्रत्ययान्तस्य यो रेफस्तस्य क-ख-प-फेषु परेषु षो वा भवति,15 अपेक्षायां-स्थानिनिमित्तपदे चेत् परस्परापेक्षे भवतः । सर्पिष्करोति, सर्पि
खादति, सर्पिष्पिबति, सर्पिष्फेनायते; धनुष्करोति, धनुष्खण्डयति, धनुष्पतति, धनुष्फलति; परमसर्पिष्करोति, परमसपिष्पिबति, परमधनुष्पतति, परमधनुष्पठति; पक्षे सर्पिः करोति, परमसर्पिः करोतीत्यादि । इसुस इति किम् ? पय) (करोति, पय-पिबति; इसुसोः प्रत्यययोर्ग्रहणादिह न भवति, मुनिः20 करोति, नदीभिः क्रियते, मुहुः पठति, भिन्द्य : पापानि; मुहुरित्यव्युत्पन्नमव्ययम् । इसा साहचर्यादुस औरणादिकस्य ग्रहणम्, तेनेह न भवति-चक्रुः कुलानि । त्याद्य स्यपीच्छत्यन्यः । अपेक्षायामिति किम् ? तिष्ठतु सपिः, पिब त्वमुदकम् । एकार्थीभावे च न भवति-परमसर्पिःकुण्डम् ।। ११ ।।
न्या० स०-वेसु० । प्रत्यययोर्ग्रहणादिति-इह *०प्रत्यया-प्रत्यययो:०%25 *लक्षणप्रतिपदोक्तयो:०% अर्थवद्ग्रहणे नानर्थकस्य इत्यनेन च इसुसोः प्रत्यययोग्रहणादिह न भवतीत्यर्थः ।। २. ३. ११ ।।