________________
[पा० ३. सू० ८-९.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३०५
[३. २. ४८.] इति निर्देशात् प्रत्यये रोः काम्ये चेत्येकयोगाभावाद् वा न ॥ २. ३.७ ।।
'नामिनस्तयोः षः ॥ २. २. ८ ॥
तयोरिति प्रत्ययसूत्रसंगृहीतानां पाश-कल्पकानां, रोः काम्ये इति यथानिर्दिष्टस्य काम्यस्य च ग्रहणम् ; तयोः परयो मिन उत्तरस्य रेफस्य षकार आदेशो भवति । सर्पिष्पाशम्, यजुष्पाशम्, धनुष्पाशम्, गीष्पाशा, 5 धूष्पाशा; सर्पिष्कल्पम्, धनुष्कल्पम्; गीष्कल्पा, सर्पिष्कम्, सार्पिष्कः, धानुष्कः; सर्पिष्काम्यति, धनुष्काम्यति। नामिन इति किम् ? अयस्कल्पम् । तयोरिति किम् ? मुनिः करोति, भिन्द्युः पापानि । रोः काम्य इत्येव ? गीःकाम्यति, धूःकाम्यति ।। ८ ।।
न्या० स०--नामिन। अत्र अनव्ययस्येति वर्तते, यतः पूर्वसूत्राभ्यां सकारे10 प्राप्तेऽयं ष इति, तेन उच्चैष्क इत्यादि न भवति, उच्चैष्काम्यतीत्यादि च । सार्पिष्क इति-"प्रत्यये" [२. ३. ६.] इति सूत्रे पाश-कल्प-का इत्युपलक्षणत्वादिकणोऽपि ग्रहणम् यद्वा इकारे लुप्तेऽयमपि क इत्यनेनात्रापि षत्वं, सर्पिषा संस्कृतः “संस्कृते" [६. ४. ३.] इतीकण , सप्तमीवाक्ये तु “संस्कृते भक्ष्ये' [ ६. २. १४०. ] इत्यनेनाण स्यात् ।। २. ३. ८ ॥
निदुबहिराविष्प्रादुश्चतुराम् ॥ २. ३. ६ ॥
निरादीनां संबन्धिनो रेफस्य क-ख-प-फेषु परेषु षो भवति । बहुवचननिर्देशो निस्दुसोनिर्दुरोश्च परिग्रहार्थः । निष्कृतम्, निष्पीतम् ; दुष्कृतम्, दुष्पीतम् ; बहिस्-बहिष्कृतम्, बहिष्पीतम् ; आविस्-आविष्कृतम्, प्राविष्पीतम् ; प्रादुस्-प्रादुष्कृतम्, चतुर्-चतुष्कण्टकम्, चतुष्पात्रम् । कथं नि३ ष्कुल! 20 दु३ ष्पुरुष ! , नैष्कुल्यम्, दौष्कुल्यम् ?, एकदेशविकृतस्यानन्यत्वाद् ।। ६ ।।
न्या० स०--निर्दुर्बहिः। प्रादुष्कृतमिति-अत्र अन्ये तु निबन्धकाराः प्रादुष्पीतमित्यप्यवीयते, तच्च न युक्त, तथाह्य द्योतकरः-प्रादुष्पीतमित्यसदेतदुदाहरणं विरोधात्, प्रादुःशब्दस्य कृभ्वस्तिविषय एवोपलम्भादिति । चतुष्कण्टकमिति-अत्र बहुव्रीहिः समाहारो वा, समाहारेऽपि पात्रादित्वात् स्त्रीत्वप्रतिषेधाद् ङीन भवति । कथमिति-अयमाशयः-25 निर्दुरोः षत्वमुच्यमानमन्यत्वात् कथमत्र, तथाहि-अत्र परत्वात् षकरात् पूर्व "दुरादामन्त्र्यस्य०” [७. ४. ६६.] इति प्लुतः घ्यणि वृद्धिश्चेति ।। २. ३. ६ ।।